________________ 4 परिच्छेदः / सरखतीकण्ठाभरणम् / 429 तत्करे यासां ताः / यद्वा धुता मेधा बुद्धिर्येन तादृशं मधु करे यासां ताः, यद्वा धुता मेधा यस्मादेवंविधो मधुकरो विदग्धो यासां ताः / घनेन दृढेन समयेन शपथेन समदेन पुंसा वा आकृष्टा आहता अवनता वशीकृताः। उपभुक्ता इति यावत् / पश्चाद्विमुक्तास्त्यक्ताः, यद्वा विमुक्ता विगतमुक्ताहाराः पश्चात्कर्मधारयः / 'समयः शपथे काले' इति विश्वः / नखस्य पातः क्षतं तदेव प्रसाधः प्रसाधनं यासां ताः // श्लेषोपहितं यथा'पीणपओहरलग्गं दिसाणं पवसन्तजलअसमअविइण्णम् / सोहग्गपढमइण्हं पम्माअइ सरसणहवअं इन्दधणुम् // 48 // ' [पीनपयोधरलनं दिशां प्रवसज्जलदसमयवितीर्णम् / सौभाग्यप्रथमचिह्न प्रम्लायति सरसनखपदमिन्द्रधनुः // ] अत्र सरसनखपदाकारस्येन्द्रधनुष उत्पन्नसादृश्यादभेदोपचारेण रूपेण योऽयं सरसे नभसि पदमस्येति व्युत्पत्त्या श्लिष्टरूपेण तद्विशेषणप्रकारो यश्च शोभायाः प्रथममत्र्यं चिद्रं सौभाग्यस्य च प्रथमं चिह्न पीनपयोधरे मेघे स्तने वा लग्नमित्यादिविशेषणविशेष्यभावस्तेनेदं श्लेषे. णोपधीयत इति श्लेषोपहितं नाम संकीर्णरूपकेषूभयभूयिष्ठरूपकभेदः॥ पीणेत्यादि / इहेन्द्रधनुः प्रसाधयति ...... श्लिष्यति वा / कीदृशम् / पीने पयोधरे मेघे लग्नम् / प्रवसता गच्छता जलदसमयेन वर्षाकालेन दिशां वितीर्ण दत्तम् / सौभाग्यस्य श्रेष्टं प्रथममाद्यं चिह्नम् / सरसे स्निग्धे नभसि गगने पदं स्थानं यस्य तत् / पक्षे सरसं नखपदं क्रमेण प्रमीयते (प्रम्लायति) / कीदृशम् / दिशां प्रौढाङ्गनानां सुन्दरीणां वा पीने मांसले पयोधरे स्तने लग्नम् / प्रवसता जलदसमयेन नायकेन वितीर्ण दत्तम् / जलान् मूर्खान् द्यति खण्डयति जलद ईदृशः समय आचारो यस्य सः / सौभाग्यस्य प्रथमचिह्नमिन्द्रधनुराकारं च / 'समयः स्यात्काल आचारे' इति शाश्वतः / प्रवासगमने स्मरणार्थ विदग्धेन नखक्षतं देयम् / तदुक्तं मद्रासिकसर्वस्वे-'प्रवासगमने देयाः स्नेहसंस्कारका नखाः / 1. पक्षे 'नखपातप्रसाधाः' इति. 2. “शोमानप्रथमचिह्न' इति वा छाया.