________________ 428 काव्यमाला / दारुणादिधर्मयोरभेदोपचारेण रूपणमवयवानां चतुर्णा रविबिम्बातपफणामणिनिर्मोकाणां सत्यामप्यभेदोपचारयोग्यतायां द्वयोरिवशब्दप्रयोगेनोपमायां द्वयोस्तुल्यरूपणेऽप्यसामानाधिकरण्यान्नावयवावयविभावो विभाव्यत इति निरवयवस्योपमायां संकीर्णत्वान्निरवयवसंकीर्णं नाम संकीर्णरूपकेषूभयभूयिष्ठरूपकभेदः // दीहो इत्यादि / इह दिवस एव भुजङ्गः सर्पोऽपरसमुद्रं पश्चिमसमुद्रं गत इव / कीदृशः / दीर्घा महापरिमाणः / सूर्यबिम्बमेव फणामणिप्रभां विकासयन् आतपसमूह कञ्चकमिव त्यजन् / अत्रासामानाधिकरण्येनावयवावयविभावो न ज्ञायते, इवप्रयोगेण चोपमा ज्ञायत इति निरवयवसंकीर्णरूपकमिदम् // उभयसंकीर्णं यथा'धुअमेहमहुअराओ घणसमआअड्डिओणअविमुक्काओ। णहपाअवसाहाओ णिअअट्ठाणं व पडिगआओ दिसाओ 47' [धुतमेघमधुकरा घनसमयाकृष्टावनतविमुक्ताः / नभःपादपशाखा निजकस्थानमिवं प्रतिगता दिशः // ] अत्र पादपरूपेण रूपितस्य नभसो यदेतदिशां शाखारूपेण रूपणं मेघानां च मधुकरप्रकरेण तदुभयमप्यन्यपदार्थषष्ठीसमासयोरभिधीयमानेन सावयवं निरवयवं चेत्युत्प्रेक्षया च संकीर्यमाणमुभयसंकीर्णरूपक. व्यपदेशं लभते / सोऽयं संकीर्णरूपकेषूभयभूयिष्ठरूपकभेदः / / धुअ इत्यादि / इह दिशो निजस्थानं स्वकीयस्थानं प्रतिगता इव / इवपदमुत्प्रेक्षायाम् / कीदृश्यः / धुता मेघा एव मधुकरा भ्रमरा यासु ताः / घनसमयेन वर्षाकालेन घनावरणादाकृष्टाः संनिहितीकृता अवनता भूमिलनाः पश्चाद्विमुक्तास्त्यक्ताः / नभ एव पादपो वृक्षस्तस्य शाखाभूताः / अत्र धुतमेघपदे बहुव्रीहिः / नभःपादपपदे षष्ठीसमासस्ताभ्यां सावयवत्वं निरवयवत्वं च यथाक्रममुक्तम् / अत एवोभयसंकीर्णरूपकमिदं / स्कन्धके, ध्वनिस्तु दिशन्तीति दिशः प्रौढनायिकाः / अन्या अपि दिशो निजस्थानमिव गच्छन्ति / कीदृश्यः धुतमेधं( ध्यं ) यन्मधु मा 1. 'स्कन्धकं नाम छन्दः'.