________________ 4 परिच्छेदः / सरस्वतीकण्ठाभरणम् / 427 तेषु सावयवसंकीर्णं यथा'रइअरकेसरणिवहं सोहइ धवलब्भदलसहस्सपरिगअम् / मंहुमहदंसणजोग्गं पिआमहुप्पत्तिपङ्कअं व णहअलम् // 45 // [रविकरकेसरनिवहं शोभते धवलाभ्रदलसहस्रपरिगतम् / मधुमथदंशनयोग्यं पितामहोत्पत्तिपङ्कज मिव नभस्तलम् // ] अत्र पितामहोत्पत्तिपङ्कजमिव नभस्तलं शोभत इत्युपमानोपमेयभावेनावयवावयविनोरभेदस्याविवक्षायामुपमैव न रूपकम् / रविकरधवलाभ्रदलसहस्रयोः केसरनिकरदलसहस्रयोश्च प्रतीयमानाभिधीयमानसादृश्ययोश्च सहजाहार्यावयवभूतयोरभेदोपचारेण रूपणमिति सावयवरूपेणोपमायाः संकीर्णत्वादिदं सावयवसंकीर्ण नाम संकीर्णरूपकेषूभयभूयिष्ठरूपकभेदः॥ अथेति / आह्वयो नाम / सर्वमेकीकृत्य गणयति-सैषेति / चतुर्विंशतिरित्यर्थः // रइअरेत्यादि / इह नभस्तलं शोभते पितामहस्य ब्रह्मण उत्पत्तिपद्ममिव तस्य पद्मयोनित्वात् / कीदृशम् / रविकराः सूर्यकिरणा एव केसरनिकरा यत्र तत् / धवलाभ्राणि श्वेतमेघा एव दलसहस्राणि तैः परिगतमन्वितम् / मधुमथस्य विष्णोर्दर्शनयोग्यम् , शरदि तस्य जागरणादस्य च रम्यत्वात् , पद्मपक्षेऽपि नाभिकमलतया मधुरिपुदर्शनयोग्यता,। यद्वा मधुमथस्य भृङ्गस्य दंशनं कवलनं तद्योग्यम् / मधु मनातीति मधुमथः मूलविभुजादित्वात्कः / 'मधुमथो हरिभृङ्गयोः' इति शाश्वतः / अत्र रविकरधवलाभ्रसहस्रयोः• सहजाहार्यावयवयोः केसरनिवहत्वेन दलसहस्रत्वेन च रूपणात् पङ्कजनभस्तलयोरवयविनोरुपमानोपमेयत्वाच सावयवसंकीर्णरूपकमिदम् // निरवयवसंकीर्णं यथा'दीहो दिअहभुअंगो रइबिम्बफणामणिप्पहं विअसन्तो। अवरसमुद्दमुवगओ मुञ्चन्तो कंचुअंव घम्मअणिवहम् // 46 // ' ... [दी| दिवसभुजङ्गो रविबिम्बफणामणिप्रभा विकसमानः। अपरसमुद्रमुपगतो मुश्चन्कञ्चुकमिव धर्मनिवहम् // ] .. अत्र दिवसावयविनो भुजङ्गावयविनश्चाभिधीयमानप्रतीयमानदैर्घ्य.