________________ 426 काव्यमाला। अत्रावयविन एव केवलस्य वदनं पङ्कजमिवेति रूपणादस्य शब्दप्राधान्यं वेल्लितभ्रप्रभृतिविशेषणोपादानाचार्थप्राधान्यमेव लक्ष्यते तेन केवलं नाम रूपकमिदं शुद्धरूपकेषुभयभूयिष्ठरूपकभेदः // वेल्लितेति / तवेदं वदनपङ्कजं कर्तृ मदावस्था मद्यपानजां दशां विवृणोति प्रकाशयति / कीदृशम् / वेल्लिते नर्तिते ध्रुवौ यत्र यत् / आलोहिते अतिरक्ते ईक्षणे यत्र तत् / इह मुखपद्मरूपस्यावयविनः केवलस्य रूपणात्केवलरूपकमिदम् // व्यतिरेकवद्यथा'अनाघ्रातं पुष्पं किसलयमलूनं कररुहै_रैनाविद्धं रत्नं मधु नवमनास्खादितरसम् / अखण्डं पुण्यानां फलमिव च तद्रूपमनघं न जाने भोक्तारं कमिह समुपस्थास्यति विधिः // 44 // अत्र पुष्पकिसलयरत्नमधुपुण्यफलानामनाघ्रातमित्यादिविशेषणापादितव्यतिरेकाणां प्रतीयमानसादृश्येन शकुन्तलारूपेण रूपणादर्थतः शब्दतश्च प्राधान्यमवधार्यत इति व्यतिरेकवन्नाम रूपकमिदं शुद्धरूपकेषूभयभूयिष्ठरूपकभेदः / / अनाघ्रातमित्यादि / अनघमनवद्यं तस्या रूपमिह भुवि कं भोक्तारं समुपस्थितं करिष्यति तदहं न जाने / कीदृशम् / अनाघ्रातमगृहीतगन्धं पुष्पमेव / कररुहेर्नखैरलूनमखण्डितं किसलयम् / अनामुक्तमपरिहितम् , अनाखादितरसमगृहीताखादं नूतनं मधु,पुण्यानां चाखण्डं सकलं फलमपि। 'आमुक्तः परिहिते शुभ्रे' इति विश्वः / इह पुष्पादीनामनाघ्रातादिना व्यतिरेकवतां रूपणाध्यतिरेकवद्रूपकमिदम् // शब्दार्थभूयिष्टरूपके संकीर्णरूपकं विभजते अथ संकीर्णभेदानां चतुष्टयमिहोच्यते / स्यात्सावयवसंकीर्ण तथानवयवाह्वयम् // 32 // तथैवोभयसंकीर्ण श्लेषोपहितमित्यपि / सैषा रूपकभेदानां विंशतिश्चतुरुत्तरा // 33 // 1. 'अनामुक्तं' इति टीकाकारसंमतः पाठः.