________________ 424 काव्यमाला। स्मृतिरङ्कुरः, पुत्रमित्रभृत्यादयः किसलयाः, दाराणां पत्नीनां परिग्रहोऽनुरागः स्कन्धः, परिभवः पराभवः कुसुमम् , दुर्गतिर्नरकः फलम् / सर्वत्र यस्या इत्यन्वयः / 'तरुप्रकाण्डे स्कन्धो ना' इति विश्वः / 'नरको निरयो दुर्गतिः स्त्रियाम्' इत्यमरः / इह बीजादीनां सहजावयवता, अहंकृत्यादीनामाहार्यावयवता, तेषामेव च प्राधान्यं विवक्षितमित्युभयावयवप्रधानमिदम् / ध्रौव्यं नित्यता // विषमावयवं यथा 'मदरक्तकपोलेन मन्मथस्त्वन्मुखेन्दुना। नर्तितभ्रूलतेनालं मर्दितुं भुवनत्रयम् // 40 // ' अत्रेन्दुना मुखावयवी रूषितः, ध्रुवौ च तदवयवौ लतावयविभ्याम् , मदरक्तौ तु कपोलौ न केनापीति सर्वतो वैषम्याद्विषमावयवं नाम रूपकमिदमङ्गप्रधानरूपकेष्वर्थभूयिष्ठरूपकभेदः / अत्रापि मदरक्तनर्तितयोः कपोलभ्रुवोरेव मन्मथस्य जगत्रितयमर्दनक्रियायां प्राधान्यं साधकतमत्वमवगम्यते // मदेत्यादि / हे प्रिये, त्वन्मुखेन्दुना मन्मथो भुवनत्रयं मर्दितुं जेतुमलं समर्थोऽस्ति / कीदृशेन / मदरक्तौ कपोलौ यत्र तेन / नर्तिते भ्रूलते येन तेन / इह मुखमवयवि चन्द्रत्वेन रूपितम् , भ्रुवो चावयवौ लतात्वेन, गण्डस्तु न केनापीति वैषम्यम् , प्राधान्यं चावयवानामेवेति विषमावयवरूपकता // शब्दार्थभूयिष्टरूपके शुद्धरूपकं विभजते आधारवन्निराधारं केवलं व्यतिरेकि च / इति शब्दार्थभूयिष्ठं शुद्धमाहुश्चतुर्विधम् // 31 // तेष्वाधारवद्यथा'सोहइ विसुद्धकिरणो गअणसमुद्दम्मि रअणिवेलालग्गो / तारामुत्तावअरो फुडविहडिअमेहसिप्पिसम्पुडविमुक्को // 41 // ' शोभते विशुद्धकिरणो गगनसमुद्रे रजनीवेलालग्नः / / तारामुक्ताप्रकरः स्फुटविघटितमेघशुक्तिसंपुटविमुक्तः // ] अत्र समुद्रत्वेन रूपितं गगनमाधारं परिकल्प्य रजनीमेघतारकौ