________________ 4 परिच्छेदः / सरखतीकण्ठाभरणम् / 423 विषं निर्मोक इति भुजगपक्षे येऽवयवास्तेषामाहार्यत्वादिदमाहार्यावयवं नाम रूपकमङ्गप्रधानरूपकेष्वर्थभूयिष्ठरूपकभेदः / अत्रापि कुम्भकर्णसंबन्धपरिघट्टितगलितविशिष्टानामवयवानामेव दशाननभुजगभीषणतरीकरणक्रियायां प्राधान्यमवगम्यते // __ तो इत्यादि / 'ततः कुम्भकर्णप्रतिवचनदण्डपरिघट्टितामर्षघोरविषः / गलितांशुकनिर्मोको जातो भीषणनरो दशाननभुजगः // ' ततोऽनन्तरं दशानन एव भुजगः सर्पः सोऽतिभयानको जातः / कीदृशः / कुम्भकर्णप्रतिवचनमेव दण्डस्तेन परिघट्टित उत्थापितोऽमर्ष एव घोरविषं यस्य सः / गलितश्च्युतोंशुकं वस्त्रमेव निर्मोकः कञ्चको यस्य सः / 'समौ कञ्चकनिर्मोको' इत्यमरः / इह प्रतिवचनादीनामवयवत्वाभावादाहार्यावयवता, तेषामेव प्राधान्यादाहार्यावयवरूपकमिदम् // उभयावयवं यथा'यस्या बीजमहंकृतिगुरुतरो मूलं ममेतिग्रहो नित्यत्वस्मृतिरङ्कुरः सुतसुहृद्धृत्यादयः पल्लवाः / स्कन्धो दारपरिग्रहः परिभवः पुष्पं फलं दुर्गतिः ____सा मे त्वच्चरणार्हणापरशुना तृष्णालता लूयताम् // 39 // ' अत्र बीजं मूलमङ्कुरः पुष्पं फलमिति लतापक्षे सहजाः, तृष्णापक्षे पुनरहंकृत्यादय आहार्यावयवा इति तदिदं सहजाहार्याणामवयवानां परस्परमुपमानोपमेयभावरूपणेनोभयावयवं नाम रूपकमिदमङ्गप्रधानरूपकेप्वर्थभूयिष्ठरूपकभेदः / अत्रापि चाहंकारममताध्रौव्यस्मरणसुतादिदारपरिग्रहपराभवदुर्गतीनामवयवानामेव बीजादिरूपेण रूपितानां भगवदाराधनकुठारेण तृष्णालता लूयतामिति प्रार्थनक्रियया समावेशेन प्राधान्यमवगम्यते // यस्यां इत्यादि / सा मम तृष्णैव लता हे कृष्ण, त्वत्पादपूजापरशुना लूयतां छिद्यताम् , त्वच्चरणार्हणैव परशुः कुठारः / यस्यास्तृष्णालताया अहंकृतिरहंकार एव बीजमादिकारणम् ; गुरुतरो ममेतिग्रहो ममत्वनिश्चयो मूलम्, नित्यमिदमिति