________________ 422 काव्यमाला / तेषु सहजावयवं यथा'पप्फुरिअउट्ठदल तक्खणविगलिअरुहिरमहुविच्छड्डम् / . उक्खडिदअण्ठणालं पडिअं फुडदसणकेसरं मुहकमलम् // 37 // ' [प्रस्फुरितोष्ठदलं तत्क्षणविगलितरुधिरमधुविच्छर्दम् / उत्खण्डितकण्ठनालं पतितं स्फुटदशनकेसरं मुखकमलम् // ] अत्रौष्ठादीनां दलादीनां च मुखाम्भोजावयवानां स्फुरितविगलितोत्खण्डितस्फुटविशेषणविशिष्टानां परस्परमुपमानोपमेयभावरूपितानां मुखपक्षे कमलपक्षे च सहजत्वं गम्यत इति सहजावयवो नामायमङ्गप्रधानरूपकेष्वर्थभूयिष्ठरूपकभेदः / नैतद्वाच्यम् - ताम्राङ्गुलिदलश्रेणीत्यादेरर्थप्रधानभेदादिदं न भिद्यत इति तत्र हि भूपालमौलिधारणक्रियासमावेशेनावयविनः प्राधान्यं विवक्षितम् , इह तु पतनक्रियायामवयवानामत एव ते स्फुरितादिविशेषणैर्विशिष्यन्ते // भेदानिति / तयोः सहजाहार्ययोर्योगस्तद्योगः, तयोवैषम्यं विषमावयवता / पप्फुरिअ इति / इह मुखमेव कमलं तत्पतितम् / कीदृशम् / प्रस्फुरितमोष्ठपुटमेव दलं पत्रं यत्र तत् / तत्कालविगलितरुधिरमेव मधुप्रवाहो यत्र तत् / विच्छदः प्रवाहः। उत्खण्डितकण्ठ एव नालो यत्र तत् / स्फुटदशना एव केसराणि यत्र तत् / इह मुखस्यौष्ठादीनि पद्मस्य पत्रादीन्यवयवास्ते च सहजा इति तत्प्राधान्यादिदं सहजावयवरूपकम् / न च ताम्राङ्गुलीत्यनेनावयविप्रधानेनास्याभेद इति वाच्यम् , तत्राङ्गिप्राधान्यस्य विवक्षितत्वादिहाङ्गप्राधान्यस्य तत्त्वादित्याह-न चेति // आहार्यावयवं यथा'तो कुंभअण्णपडिवअणदण्डपडिघट्टिआमरिसघोरविसो / गलिअंसुअर्णिमोओ जाओ भीसणणरो दसाणणभुअओ॥३८॥' ततः कुम्भकर्णप्रतिवचनदण्डपरिघट्टितामर्षघोरविषः / गलितांशुकनिर्मोको जातो भीषणनरो दशाननभुजगः // ] अत्र कुम्भकर्णप्रतिवचनममर्षोंऽशुकमिति दशाननपक्षे दण्डो घोर