________________ 4 परिच्छेदः / सरस्वतीकण्ठाभरणम् / 421 मिति गौणवृत्तिव्यपाश्रयः शब्द एव समस्तविशेषणैः परिष्क्रियते तथापि नन्दयतीति नन्दनमिति कृदभिहितक्रियासमावेशे मुखाख्यस्यैव वस्तुनः प्राधान्यमवगम्यते तस्य त्वपहियत इत्यर्थप्रधानमेवैतत् // स्मितेत्यादि। हे सुभ्र, तवेदं मुखं कस्य न नन्दनं हर्षजनकमपि तु सर्वस्यैव / नः शिरश्चालने / कीदृशम् / स्मितमेव पुष्पं तेनोज्वलं दीप्तिमत् / लोलनेत्रे एव भृङ्गौ यत्र तत् / सुरभिः श्वासानिलो यत्र तत् / युक्तिोगः उपपत्तिश्चोभयमपि विवक्षितमिह / तथा हि पुष्पभ्रमरयोयुक्तिर्योगः पुष्पैः सह भ्रमराणां मकरन्दपानकृतः संबन्धः / अत एवोपपद्यते पुष्पभ्रमरयोरेकत्रावस्थानम् , न हि पुष्पाणि भ्रमरैर्विना शोभन्त इति युक्तरूपकतेत्याशयवानाह-परस्परमिति / नन्दनमिव नन्दनमिति शब्दप्राधान्येऽपि नन्दयतीति नन्दनमिति कृदभिहितो भावो द्रव्यवत्प्र. काशत इति वचनादन्यप्राधान्यमेव विवक्षितमिति शङ्कोत्तराभ्याम् // अयुक्तं यथा-- 'इदमाईस्मितज्योत्स्नं स्निग्धनेत्रोत्पलं मुखम् / जगन्नेत्रेन्दुरस्माकं कथं तापाय कल्पते // 36 // ' अत्र ज्योत्स्नोत्पलयोरयोगाज्जगन्नेत्रेन्दोश्च मुखस्य संतापकारणमिदमयुक्तं नामाङ्गिप्रधानरूपकभेदेष्वर्थभूयिष्टरूपकभेदः / अत्रापि पूर्ववन्मुखाख्यवस्तुनो विशेषणैः परिष्करणमिति. तस्यैव प्राधान्यमवगम्यते // इदमित्यादि / हे कान्ते, तवेदं मुखं जगन्नेत्राणामिन्दुरस्माकं तापाय कथं कल्पते शक्तो भवति / कीदृशम् / आईस्मितं सरसेषद्धास एव ज्योत्स्ना यत्र तत् / स्निग्धं नेत्रोत्पलं यत्र तत् / स्मितस्यात्वेन स्नेहजनितता लक्ष्यते, कोपस्मितस्य सूक्ष्मत्वात् / इह ज्योत्स्नाया उत्पलस्य च सहानवस्थानं तच्च मिथोऽनुपकार्योपकारकभावादित्ययुक्तरूपकता / अर्थप्राधान्यं पूर्वोक्तयुक्त्यात्रापीत्याह-अत्रापीति // अर्थभूयिष्टरूपकेऽङ्गप्रधानं विभजते भेदानङ्गप्रधानस्य चतुरोऽवयवाश्रयान् / ... सहजाहार्यतद्योगतद्वैषम्यैः प्रचक्षते // 30 //