________________ सावरपल्लवम् / 420 काव्यमाला / तार्चिषामेव रूपकत्वमस्तु, तथापि स दोषस्तदवस्थ एवेत्यत आह-ताश्चेति / ता अर्चिषः / पाणिपद्मानीत्यत्र रूपकत्वे दोषतादवस्थ्यादाह-पाणीति / जिगीषुभाववर्णनायां मुख्यत्वेनाङ्गतया पाणिपद्माद्यन्वय इति शब्दप्राधान्यमेव / प्रकृते तु चरणादेरवयविनः प्रधानक्रियान्वय इत्यर्थप्राधान्यमिति भेदः // ... असमस्तं यथा 'अकस्मादेव ते चण्डि स्फुरिताधरपल्लवम् / मुखं मुक्तारुचो धत्ते धर्माम्भःकणमञ्जरीः // 34 // अत्राप्येकदेशोपक्रमेणाधरपल्लवस्वेदाम्बुकणमञ्जरीणां सहजाहायर्यावयवानामभिधानादुपमानावयविनश्चानभिधानादिदमसमस्तं नाम रूपकमङ्गिप्रधानेष्वर्थभूयिष्ठरूपकभेदः / अत्रापि च स्फुरिताधरपल्लवमिति विशेषणविशिष्टस्य मुख्यवस्तुनः धर्माम्भःकणमञ्जरीधारणक्रियासमावेशः प्राधान्यं स्थापयति // ___ अकस्मादित्यादि / हे चण्डि कोपने, तक स्फुरिताधरपल्लवं मुखं कर्तृ, अकस्मादेव कारणं विनैव मौक्तिकच्छाया घर्माम्बुकणमञ्जरीधत्ते बिभर्ति / अत्रापीति / यथैकदेशोपमायामवयवानां प्राधान्यं तथात्राप्यवयवानामेव प्राधान्यादसमस्तरूपकत्वम् / एवं चावंय विनो मुखस्य रूपकाभावादवयवरूपकमिदमिति भावः / सहजावयवताधरे आहार्यावयवतौपचारिक्यवयवता घसम्भःकणस्यावयवाश्रयत्वात् / उपमानावयविनो लताख्यस्य / शब्दभूयिष्टरूपकभेदासमस्तरूपकादस्य भेदमाह-अत्रापीति / इहोक्तयुक्त्यार्थप्राधान्यमिति भेदः // युक्तं यथा'स्मितपुष्पोज्ज्वलं लोलनेत्रभृङ्गमिदं मुखम् / न कस्य नन्दनं सुभ्र सुरभिश्वसितानिलम् // 35 // अत्र स्मितपुष्पोज्ज्वलं लोलनेत्रभृङ्गं सुरभिश्वसितानिलं ते मुखं न कस्य नन्दनमिति पुष्पभृङ्गादीनां परस्परं युक्त्युपपत्तेर्युक्तं नामायमङ्गाङ्गिप्रधानरूपकेष्वर्थभूयिष्ठो रूपकभेदः / अत्र यद्यपि नन्दनमिव नन्दन