________________ 4 परिच्छेदः / ] सरस्वतीकण्ठाभरणम् / 419 तेषु समस्तं यथा. 'ताम्राङ्गुलिदलश्रेणिनखदीधितिकेसरम् / ध्रियते मूर्ध्नि भूपालैर्भवच्चरणपङ्कजम् // 33 // अत्र समस्तोपमायामिव पादाख्यः पङ्कजाख्यश्चावयवी परस्परमुपमानोपमेयभूतः प्रतीयमानाभिधीयमानसादृश्यैरङ्गुलिश्रेणिनखदीधितिभिदलश्रेणिकेसरैश्च सह सामस्त्येन रूपितस्तद्योग्यस्थानविन्यासेन चार्थस्य प्राधान्यमभिहितमिति समस्तं नाम रूपकमिदमङ्गिप्रधानरूपकेष्वर्थभूयिष्ठरूपकभेदः / न चैतद्वाच्यम्-'पाणिपद्मानि भूपाना'मित्यादेरुदाहरणादिदं न भिद्यत इति / तत्र हि नखार्चिषां क्रियासमावेशेन प्राधान्यमवगम्यते, न नखचन्द्राणां ततश्च न रूपकम् / पाणिप त्यस्य तु यद्यपि संकोचक्रियायामस्ति समावेशस्तथापि न तानि वर्णनीयत्वेनोपन्यस्तानि, अपि तु जिगीषुभाववर्णनाङ्गतया / अतः समावेशमात्रभणनान्न तत्र पाणिपद्मानां नापि नखचन्द्राणामर्थप्राधान्यमपि तु शब्दप्राधान्यमेव / इह तु चरणपङ्कजताम्राङ्गुलिदलश्रेण्यादिविशेषणविशिष्टस्य भूपालमौलिविनिवेशनेन प्राधान्यं प्रतीयत इत्युभयमपि निरवद्यम् // समस्तमिति / ताम्रेत्यादि / भवच्चरणंपद्मं नृपैर्मस्तके ध्रियते / कीदृशम् / ताम्राङ्गुलयो दलश्रेणिः पत्रपतिर्यत्र तत् / नखदीधितयः केसराणि यत्र तत् / समस्तेति / यथा समस्तोपमायामवयविनोः सामस्त्येनोपमा, तथात्राप्यवयविनोरेव प्राधान्येन सामस्त्येन रूपकमित्यर्थः / अङ्गुल्यादौ प्रतीयमानता दलादावभिधीयमानता / तर्हि शब्दभूयिष्टत्वमेव स्यादत आह-तद्योग्येति / शब्दोपस्थापितानामर्थानामिह यथास्थानं विनिवेशादर्थप्राधान्यमित्यर्थभूयिष्ठत्वमुक्तमित्यर्थः / शब्दभूयिष्टरूपकभेदे समस्तेऽतिव्याप्तिमाशङ्कते-न चेति / तत्रापि नानाशब्दोपस्थापितानामर्थानामवयविनोरेव प्राधान्यमतो नानयोर्भेद इत्याशयः / परिहरति-तत्र हीति / तत्रार्चिषां प्राधान्यं साक्षाक्रियान्वयात् , समर्थानामवयविनोरेव प्राधान्यमतोऽनयोर्भेद इत्याशयः / नखचन्द्राणां तदङ्गतयान्वयः।