________________ 418 काव्यमाला। दाता सप्तसमुद्रसीमरशनादामाकितायाः क्षितेः सर्वाकारमहो स्वयंवरसुहृत्को वा न कर्णो मम // 31 // अत्र खाम्यादीनां मालोपमादिक्रमेण निरूपितत्वान्मालारूपकं नाम विकृतरूपकेषु शब्दभूयिष्ठरूपकभेदः // . स्वामीत्यादि / को वा न, अपि तु सर्व एव / तदेवाह-दुर्नयस्य वारणे निवारणे व्यतिकर आसङ्गस्तत्र खामी प्रभुः / दुर्नयनिवारक इत्यर्थः / शौर्यस्योपदेशे गुरुरुपदेष्टा / विस्रम्भे हृदयं विश्वासपात्रम् / नियोग आज्ञा तत्काले दासः / भये आश्रयश्च / सप्तसमुद्रसीमान एव, रशनादाम तचिह्निताया भूमेदाता / अहो आश्चर्यं सर्वाकारं यथा स्यादेवं स्वयंवरसुहृत् सहजमित्रं च, निरुपधित्वं वयंवर• शब्दार्थः / हृदयमित्यजहल्लिङ्गतयान्वयः / 'आज्ञा नियोग आदेशः' इत्यमरः। इह विस्तरेण रूपितत्वान्मालारूपकम् // रूपकरूपकं यथा'मुखपङ्कजरङ्गेऽस्मिन्भ्रूलता नर्तकी तव / लीलानाट्यामृतं दृष्टौ सखि यूनां निषिञ्चति // 32 // अत्र मुखमेव पङ्कजं तदेव रङ्गः, भूरेव लता सैव नर्तकी, लीलैव नाट्यं तदेवामृतमिति रूपितानामपि रूपणेन समासेन रूपकरूपकं नामायं विकृतरूपकेषु शब्दभूयिष्ठरूपकभेदः / तदेतच्चतुष्टयमपि परम्परादिभिर्विकृतसमासादिशब्दैर्निबद्धमिति विकृतमुच्यते // मुखेत्यादि / हे सखि, तव भूलतास्मिन्मुखपद्मरङ्गे नर्तकी यूनां दृष्टौ नेत्रे लीलानाट्यामृतं निषिञ्चति / लीलाविलास एव नाट्यं नृत्यं तदेवामृतम् / इह मुखं पङ्कजेन रूपयित्वा रङ्गत्वेन रूपितम् , एवं ध्रुवौ लतात्वेन रूपयित्वा नर्तकीत्वेन रूपिते। लीलैव नाट्यं तदेवामृतमिति रूपितरूपणाद्रूपकरूपकम् // अर्थभूयिष्ठरूपकेऽङ्गिप्रधानं विभजते समस्तं चासमस्तं च युक्तं चायुक्तमेव च / चतुर्धाङ्गि प्रधानं स्यादर्थभूयिष्ठरूपकम् // 29 //