________________ 4 परिच्छेदः / सरखतीकण्ठाभरणम् / 417 अत्र दाशरथिसंबन्धिनो व्यवसायस्य रविणा, रोषस्य गजेन्द्रेण, जयस्य केसरिणा सहोपमानोपमेयभावकल्पनया यदेकं रूपणमथैतसंबन्धितया प्रदोषशृङ्खलाप्रतिबन्धपञ्जराणां द्वितीयं तत्र त्रयाणामपि घनसमयेन तृतीयं तेनेदं रूपकं परम्परानाम विकृतरूपकेषु शब्दभूयिष्ठरूपकभेदः // ववसाअ इत्यादि / 'व्यवसायरविप्रदोषो रोषगजेन्द्रदृढशृङ्खलाप्रतिबन्धः / कथं कथमपि दाशरथेर्जयकेसरिपञ्जरो गतो घनसमयः // ' अत्र दाशरथे रामस्य कथं कथमपि कष्टसृष्ट्या घनसमयो वर्षतुरतीतः। कीदृशः। व्यवसायः कार्योद्योगः स एव रविस्तेजोमयत्वात्तस्य प्रदोषोऽस्तगमनकालः / दोष एव गजेन्द्रो दुर्निवारवात्तस्य दृढशृङ्खलाप्रतिबन्धः प्रतिबन्धकत्वात् / जय एव केसरी तस्य पञ्जरो गृहभेदो नियामकत्वात् / 'शृङ्खला निगडे त्रिषु' इति मेदिनीकारः / इह रामसंबन्धिसंबन्धिरूपणात्परम्परारूपकम् / संबन्धिसंबन्धित्वादेव विकृतत्वम् // . रशना यथा'किसलयकरैलतानां करकमलैर्मुगदृशां जगज्जयति / नलिनीनां कमलमुखैर्मुखेन्दुभिर्योषितां मदनः // 30 // ' अत्र किसलयकरैः, करकमलैः, कमलमुखैः, मुखेन्दुभिरिति रशनाक्रमेण शब्दानां संदर्भ उपलभ्यमानस्तदर्थानां मनोभुवो जगद्विजये लतादिसंबन्धात्करणभावमनुमापयतीति रशनानामैतद्विकृतरूपकेषु शब्द• भूयिष्ठरूपकभेदः // किसलयेत्यादि / मदनः कामो हरिणाक्षीणां हस्तपद्मलतानां किसलयकरैर्जगज्जयति / योषितां मुखचन्द्रैः पद्मिनीनां पद्ममुखैश्च जगज्जयति / इह रशना क्षुद्रघण्टिका तस्याः क्रमः पश्चाद्वलनयैकैकप्रथना शब्दगता प्रतीयत इति रशनारूपकमिदम् // माला यथा'खामी दुर्नयवारणव्यतिकरे शौर्योपदेशे गुरु विस्रम्भे हृदयं नियोगसमये दासो भये चाश्रयः / 27 स. क.