________________ 416 काव्यमाला / पुष्पम् / 'नीरक्षीराम्बुशम्बरम्' इत्यमरः / वादिव्यतिरेकादुपमातिरस्कारः / इह प्रथमं समस्तं ततोऽसमस्तमिति समस्तव्यस्तता // सविशेषणं यथा'हरिपादः शिरोलमजझुकन्याजलांशुकः / जयत्यसुरनिःशङ्कसुरानन्दोत्सवध्वजः // 28 // अत्र यथोक्तविशेषणविशिष्टो यो हरिपादो यश्च हरिहतासुरेभ्यो निःशङ्कानां सुराणामानन्दोत्सवे ध्वजस्तयोः सविशेषणयोरेव प्रतीयमानसादृश्ययोः परस्परमुपमानोपमेयभाव इति सविशेषणं नाम प्रकृतरूपकेषु शब्दभूयिष्ठरूपकभेदः / तदेतच्चतुष्टयमपि प्रकृतसमासादिशब्दैनिबद्धमिति प्रकृतमुच्यते // हरीत्यादि / शिरसि अग्रं लग्नं बलिवञ्चने त्रिविक्रमदशायां ब्रह्माण्डाप्ती ब्रह्मणा पाद्यार्थमावर्जितं यजझुकन्याया गङ्गाया जलं तदेवांशुकं वस्त्रमिव यत्र तादृशो हरेर्वामनरूपस्य पादो बलिविजयादसुरेभ्यो निःशङ्कानां देवानां हर्षोत्सवे 'वज एव जयति / अत एव जाह्नवीजलमंशुकत्वेन रूपितम् , तेन विना ध्वजानुपपत्तेः 'शिरोऽग्रे मस्तकेऽपि च' इति मेदिनीकारः। इह पादध्वजयोर्विशेषण. वतोरेव रूपणात् सविशेषणरूपकता / प्रकृतत्वं प्रस्तुतत्वम् / तच समासादिभिरेवेति प्रकृतरूपकता // विकृतशब्दभूयिष्ठं विभजते चतुरो विकृतस्यापि प्रभेदान्प्रतिजानते / परम्पराथ रशनामालारूपकरूपकम् // 28 // चतुर इति / विकृतस्यापि चतुरो भेदान् प्रतिजानते स्वीकुर्वन्ति। धीरा इति शेषः॥ तेषु परम्परा यथा'ववसाअरइप्पओसो रोसगइन्ददिढसिङ्खलापडिबन्धो / कह कह वि दासरहिणो जअकेसरिपञ्जरो गओ घणसमओं 29' व्यवसायरविप्रदोषो रोषगजेन्द्रदृढशृङ्खलाप्रतिबन्धः / कथं कथमपि दाशरथेयकेसरिपञ्जरो गतो धनसमयः //