________________ 4 परिच्छेदः / सरखतीकण्ठाभरणम् / 415 कुन्दपुष्पवदमलाः / 'अहॅितिः शिखा स्त्रियाम्' इत्यमरः / पाणिः पद्ममिव नखश्चन्द्र इवेत्यत्र 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे 2 / 1 / 56' इति समासः। इह सामान्यस्येवादेरप्रयोगेणाभेदोपचारादुपमानार्थस्तिरोभूत इति गौणीपुरस्कारः / तिरोभूतत्वं च परमार्थतः सन्नपि भेदो न भासत इति, तत्तु समासेनैव कृतम् , अत एव शब्दप्राचुर्याच्छब्दभूयिष्टता // व्यस्तं यथा- 'अमुल्यः पल्लवान्यासन्कुसुमानि नखार्चिषः / बाहू लते वसन्तश्रीस्त्वं नः प्रत्यक्षचारिणी // 26 // " अत्रापि पूर्ववत्पल्लवकुसुमलतावसन्तश्रीशब्दानां गुणवृत्त्याश्रयेणाङ्गुलीनखाचिर्बाहुवर्णनीयनामिकाभिः सह सामानाधिकरण्यात्सामान्येवादिशब्दाप्रयोगाच्च तिरोभूतेऽप्युपमानार्थे समासो न कृत इत्यसमस्तरूपं नाम प्रकृतरूपकेषु शब्दभूयिष्ठरूपकभेदः // अङ्गुल्य इत्यादि / हे सुन्दरि, त्वं नोऽस्माकं प्रत्यक्षचारिणी दृष्टिविषया पादविहारिणी वा वसन्तस्य श्रीरसि / अभेदोपचारे बीजमाह-तवाङ्गुल्यः पल्लवान्यासन् / नखदीप्तयः पुष्पाण्यासन्। बाहू लते बाहुद्वयं च लताद्वयम् / 'पल्लवोऽस्त्री किसलयम्' इत्यमरः / उपमानोपमेयभेदमाह-सामान्येति / इह समासाभावाद्यस्तरूपता // समस्तव्यस्तं यथा'स्मितं मुखेन्दौ ज्योत्स्ना ते प्रभाम्बु कुचकुम्भयोः / दोर्लतापल्लवे पाणौ पुष्पं सखि नखार्चिषः // 27 // ' अत्र मुखेन्दोः स्मितमेव ज्योत्स्ना, कुचकुम्भयोः प्रभवाम्बु, दोर्लतयोः पल्लवभूते पाणौ नखार्चिष एव पुष्पमिति समस्तानामसमस्तानां च गौणशब्दानामुपमातिरस्कारेण दर्शितत्वादिदं समस्तव्यस्तरूपं नाम प्रकृतरूपकेषु शब्दभूयिष्ठरूपकभेदः // मितमित्यादि / हे सखि, तव मुखेन्दौ स्मितमीषद्धासो ज्योत्स्नास्ति / कुचकुम्भयोः प्रभा दीप्तिरम्बु जलम् / बाहुलतायाः पल्लवभूते मणौ नखदीप्तयः