________________ काव्यमाला। तदा रूपकम् / कथमन्यस्यान्यबोधकतातिप्रसङ्गात् / तत्राह-गौणेति / गौणवृत्तिौणी तदाश्रयणात् / तथा च गौणान्यस्यान्यबोधकता / एवं च यत्रोपमानोपमेयपदाभ्याममेदो गुणादिपुरस्कारेण बोध्यते तत्र रूपकं, यत्र सादृश्यमानं तत्रोपमेति तयोर्भेदः॥ विभागमाह शब्दार्थोभयभूयिष्ठभेदात्रेधा तदुच्यते / शब्दभूयिष्ठमेतेषु प्रकृतं विकृतं तथा // 25 // . अर्थभूयिष्ठमप्याहुः प्राधान्येङ्गयङ्गयोर्द्विधा / द्विधैवोभयभूयिष्ठं शुद्धसंकीर्णभेदतः // 26 // शब्देति / प्रथमं यावद्रूपकं त्रिधा-शब्दभूयिष्ठार्थभूयिष्ठतदुभयभूयिष्ठभेदात् / तत्र शब्दभूयिष्ठं प्रकृतविकृतभेदाद्विधा, अर्थभूयिष्ठमङ्गिप्रधानाङ्गप्रधानभेदाद्विधा, उभयभूयिष्ठमपि शुद्धसंकीर्णभेदाद्विधेति विभागः // तत्र प्रकृतशब्दभूयिष्ठविभागमाह चतुर्धा प्रकृतं तेषु शब्दभूयिष्ठमुच्यते / / समस्तं व्यस्तमुभयं सविशेषणमित्यपि // 27 // तेषु समस्तं यथा'पाणिपद्मानि भूपानां संकोचयितुमीशते / त्वत्पादनखचन्द्राणामर्चिषः कुन्दनिर्मलाः // 25 // 8. अत्र 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे 2 / 1 / 56' इति इह से पद्मानीव पद्मानि चन्द्रा इव चन्द्रा इत्यभेदोपचारेणोत्पन्नसा पाणीनां नखानां च पद्मचन्द्रादिभिरभिधाने सामान्येवादिशब्दाप्रबागादुपमानार्थस्तिरोभूत इति सोऽयं गौणशब्दव्यपाश्रयः समासहेतुकः समस्तरूपं नाम प्रकृतरूपकेषु शब्दभूयिष्ठरूपकभेदः // चतुर्धेति / पाणीति / त्वत्पादनखचन्द्राणामर्चिषस्तेजांसि भूपानां करकमलानि संकोचयितुं निमीलयितुमीशते समर्था भवन्ति / अर्चिषः कीदृश्यः।