________________ 4 परिच्छेदः। सरस्वतीकण्ठाभरणम् / 413 .. तवेति / हे प्रिये, त्वां कथं नु लभेमहि / कीदृशीम् / पद्मिनीकदम्बे निलीनां स्थिताम् / मुखेनापि न लाभ इत्याह-तव मुखमिव पद्मम् पद्ममिव मुखम् / इह. प्रथमपक्षे विपर्यासोऽथोभयोपमानोपमेयभावादुभयोपमेयम् // उत्पाद्योपमा यथा'उभौ यदि व्योम्नि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम् / तदोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः // 23 // ' अत्रोपमानार्थमुत्पाद्योपमेयेन प्रतीयमानमभिधीयमानं च सादृश्यमभिहितमिति सेयमुत्पाद्योपमानाम विकृतरूपोपमासु प्रपञ्चोपमाभक्तिः॥ उभाविति / उभावित्यादिविवृतोऽयं श्लेषगुणे / इह यद्येते पतेतामित्युपमानता तस्योत्पाद्यत इतीयमुत्पाद्योपमा / अनेकेषामुपमितेः प्रपञ्चोपमात्वम् // अनन्वयोपमा यथा'त्वन्मुखं त्वन्मुखमिव त्वदृशौ त्वदृशाविव / त्वन्मूर्तिरिव मूर्तिस्ते त्वमिव वं कृशोदरि // 24 // अत्र त्वमेवेशी नान्या त्वत्सदृशीत्यनन्वये सति उपमानोपमेयभावविवक्षयैकस्यापि वस्तुनो भेदमुपकल्प्य प्रतीयमानसादृश्यमौपम्येनाभिहितमिति सेयमनन्वयोपमानाम विकृतरूपोपमासु प्रपञ्चोपमाभक्तिः॥ त्वदित्यादि / विवृतोऽयं लाटानुप्रासे / इहान्या त्वत्सदृशी नेत्युपमानान्तरसंबन्धाभावोऽनन्वयः / तदुपमितिः कथं तस्या भेदगर्भत्वादत आह–एकस्यापीति / तथा चाभेदेऽपि भेदकल्पनाददोषः / औपम्येनोपमायाः, खार्थे कः ष्यञ् / इत्युपमालंकारनिरूपणम् // रूपकालंकारनिरूपणम् / ... रूपकलक्षणमाह यदोपमानशब्दानां गौणवृत्तिव्यपाश्रयात् / ... उपमेये भवेद्वृत्तिस्तदा तद्रूपकं विदुः // 24 // यदेति / यदोपमानपदानां पद्मादीनामुपमेयेषु मुखादिषु वृत्तिर्बोधकता भवे