________________ 412 काव्यमाला। आह-तथेति / उपमापतया चेकवाक्यताविधानेन शरहतुवर्णनेन प्रकृतरूपेति भावः / (तुरीया चतुर्थी च, 'तुरणमत्तावाद्यक्षरलोपश्च' इति (?) छः // इतीमास्ताश्चतस्रोऽपि रूपेण प्रकृतेन याः। .. उपमानां चतस्रोऽन्या विकृतेन प्रचक्ष्महे // 22 // विपर्यासोपमा तासु प्रथमाथोभयोपमा / अथोत्पाद्योपमा नाम तुरीयानन्वयोपमा // 23 // तासु विपर्यासोपमा यथा'यत्त्वन्नेत्रसमानकान्ति सलिले ममं तदिन्दीवरं मेधैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी / येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते // 21 // अत्र नेत्रादीनामुपमेयत्वमिन्दीवरादीनामुपमानत्वमिति प्रसिद्धौ येयमत्यनुरागान्नेत्रादिष्वाधिक्यबुद्धिर्नात्यनुरागादिन्दीवरादिषु तदनुकारिबुद्धिस्तयेह रामेण विरहिणाभिधीयमानसादृश्यानाममीषां परस्परमुपमानोपमेयभावः प्रसिद्धेविपर्यासेन कल्पित इति सेयं विपर्यासोपमा नाम विकृतरूपोपमासु प्रपञ्चोपमाभक्तिः // यदिति / हे प्रिये, मम त्वत्सादृश्यहर्षमात्रमपि न दैवेन क्षम्यते / यस्मात्तदिन्दीवरं जले मग्नम् / कीदृशम् / त्वन्नेत्रसमशोभम् / चन्द्रो मेधैरन्तरितश्छन्नः। कीदृशः / त्वन्मुखप्रतिबिम्बसदृशः। तेऽपि राजहंसा गताः / ये त्वद्गतितुल्यगमनाः इह प्रसिद्धिविपर्ययेणोपमितेर्विपर्यासोपमा // . उभयोपमा यथा 'तवाननमिवाम्भोजमम्भोजमिव ते मुखम् / निलीनां नलिनीखण्डे कथं नु त्वां लभेमहि // 22 // ' . . अत्राप्यत्यन्तसादृश्यादेकस्मिन्पक्षे प्रसिद्धेर्विपर्यास इति सेयं प्रतीयमानसादृश्योभयोपमा नाम विकृतरूपोपमासु प्रपञ्चोपमाभक्तिः / .