________________ 4 परिच्छेदः।) सरखतीकण्ठाभरणम् / अत्र रामदृष्टेलक्ष्मणमुखादिविनिवेशिन्याः शोभायुपमानमालया प्रतीयमानसादृश्यया विस्तरेणोपमितेर्मालोपमा नामेयं प्रकृतरूपोपमासु प्रपञ्चोपमाभक्तिः॥ सोहेति / ‘शोभेव लक्ष्मणमुखं वनमालेव विकटं हरिपतेरुरः / कीर्तिरिव पवनतनयमाज्ञेव बलान्यस्य विलगति दृष्टिः // ' अस्य रामस्य दृष्टिलक्ष्मणमुखं विलगति संबध्नाति / शोभेव दर्शनानन्तरमेव मुखप्रसादात् / हरिपतेः सुग्रीवस्य विस्तीर्णमुरः सा विलगति वनमालेव पौरुषाध्यवसायनिमित्तम्, समस्तवक्षःस्थलविलोकनाद्धवलश्यामलया दृष्ट्या वनमालेच प्रमाणावसरे प्रभुणा सुग्रीवाय प्रसादीकृतेति भावः / पवनतनयं हनूमन्तं विलगति कीतिरिव, तस्य ज्ञातपौरुषस्य विकसितया धवलितगगनया दृष्ट्या निरीक्षणं कृतमिति भावः / बलानि विलगति आज्ञेव, तदनन्तरमेवातिबलानां तेषां गमनोद्योगात् / 'आपादप्रवणां मालां वनमालेति तां विदुः / ' इति शाश्वतः / मुखादेराधारस्यैव कर्मता / यद्वा 'उपसर्गेण धात्वर्थो बलादन्यत्र नीयते।' इति व्युत्पत्त्या विलगतेः सकर्मकता / इह रामदृष्टेः शोभाधुपमानमालया सूत्रेण ग्रथनमेव, विस्तरेणोपमितेर्मालोपमेयम् / न चेयं बहूपमा; एकस्य धर्मस्य बहुभिरनुपस्थितत्वात् // - रसनोपमा यथा'चन्द्रायते शुक्लरुचापि हंसो हंसायते चारुगतेन कान्ता / कान्तायते स्पर्शसुखेन वारि वारीयते स्वच्छतया विहायः // 20 // अत्र चन्द्रादीनां शौक्लयादिभिरभिधीयमानसादृश्यहँसादिभिर्येयं रसनान्यायेन पश्चाद्वलनया विस्तरवती हेतुमती च प्रत्ययोपमापतिस्तथेहैकवाक्यताकरणन शरद्रमणीयतोयवर्णनमिति सेयं रसनोपमा नाम प्रकृतरूपोपमासु प्रपञ्चोपमाभक्तिः // चन्द्रेति / अथ हंसः श्वेतदीप्त्या चन्द्रायते चन्द्र इवाचरति / प्रिया मनोज्ञगमनेन हंस इवाचरति / वारि जलं स्पर्शसुखेन कान्तेवाचरति / विहायो गगनं निलितया परिस्तेि जलवाचति / दरवार जलम्' इत्यमरः / 'मुस्थामाशविहायसी' इति च / इह पश्चाद्वलना पूर्वापेक्षतया क्षुद्रघण्टिकाक्रमः प्रपञ्चवत्त्वं रुचेत्यादिहेतुमत्त्वं प्रतीत्युपमाबाहुल्यं च स्फुटमेव / तर्हि प्रकृतरूपता कथं स्यादत