________________ 110 काव्यमाला। अत्र वसन्तलक्ष्मीपरिष्कृतलतानां ललनानां च प्रतीयमानसादृश्यानामुपमानोपमेयभावविवक्षायां येयमलिवलयादिभिरलकादीनां प्रतीयमानसादृश्यानामेव पृथक्पृथगिवशब्दप्रयोगवतीति विस्तरेणावयविनोऽवयवानां चेति सामस्त्येन वाक्यार्थयोरौपम्योक्तिभङ्गिः / सेयं स. मस्तोपमानाम प्रकृतरूपोपमासु प्रपञ्चोपमाभक्तिः // - अलीत्यादि / लता वसन्ते ललना इव स्त्रिय इवाधिकं शोभन्ते / कैः / अलकैरिव भृङ्गवृन्दैः, पुष्पगुच्छैः कुचैरिव, पल्लवैः पाणिभिरिव / इहावयविनोलतास्त्रीरूपयोरवयवानामेकदेशानामलिवलयालकादीनां सामग्र्येणोपमानोपमेयभावात् समस्तोपमेयम् / तेषां च प्रकृतत्वं प्रसिद्धमेव // एकदेशोपमा यथा'कमलदलैरधरैरिव दशनैरिव केसरैर्विराजन्ते / अलिवलयैरलकैरिव कमलैर्वदनैरिव नलिन्यः // 18 // ' अत्र नलिनीनां विलासिनीनां च परस्परमुपमानोपमेयभावे वक्तव्ये विलासिनीलक्षणमुपमानार्थम्, एवमवयवान्तराणि च यानि स्तनाधुपमेयानि, तानि परित्यज्य कमलमेवैकं तदवयवैर्दलादिभिः सहाधरादिभिरुपमानैः पृथक्पृथगिवप्रयोगाद्विस्तरेणोपमितम् / तेनेयमेकदेशोपमा नाम प्रकृतरूपोपमासु प्रपञ्चोपमाभक्तिः // कमलेति / पद्मिन्यः शोभन्ते / कैः / अधरैरिव पद्मपत्रैः, दन्तैरिव किंजल्कैः, अलकैरिव भृङ्गसंघैः, मुखैरिव पद्मः / इह विस्तरोपमया प्रपञ्चोपमा, हंसस्तनादित्यागात्कमलदलादिना सहाधरादेरेकदेशस्योपमया चैकदेशोपमेयम् // मालोपमा यथा'सोहत्व लक्खणमुहं वणमालब विअडं हरिवइस्स उरम् / कित्तिब पवणतण आणब बलाइं से विलग्गइ दिट्ठी // 19 // ' [शोभेव लक्ष्मणमुखं वनमालेव विकटं हरिपतेरुरः / / कीर्तिरिव पवनतनयमाज्ञेव बलान्यस्य विलगति दृष्टिः // ]