________________ 4 परिच्छेदः / सरस्वतीकण्ठाभरणम् / 109 वैधर्म्यवती यथा-. .. ... 'प्रहितः प्रधनाय माधवानहमाकारयितुं महीभृता / .. न परेषु महौजसश्छलादपकुर्वन्ति मलिम्लुचा इव // 16 // ' अत्र सत्युपमाने सत्युपमेये सत्यपि चेवशब्दे महौजसां मलिम्लुचानां च योऽयं छलापकरणं नाम वस्तुधर्मः स उपमान एव नकारेण नियम्यत इति वैधर्म्यवतीनामेयं वाक्यार्थोपमासु वाक्योपमाभक्तिः // प्रहित इत्यादि / अयं विविध उच्यतासदृशोपमविशेषगुणे (?) इहान्यरूपैः साम्येऽपि वाच्यधर्म उपमान एव निषेधेन नियमित इति वैधर्म्यम् / तद्वतीयमुपमा / प्रपञ्चोपमाया अष्टविधत्वमाह- . यत्रोक्तिभङ्ग्या वाक्यार्थे सादृश्यमवगम्यते / वाक्यार्थयोर्विस्तरतः सा प्रपञ्चोपमेष्यते // 19 // योति / वाक्यार्थे वचनभङ्गया यत्र वाक्यार्थयोर्विस्तरेण सादृश्यं ज्ञायते सा प्रपञ्चोपमा // . तस्या विभागमाह- . सा तु प्रकृतरूपा स्याद्रूपेण विकृता तथा / तयोः प्रकृतरूपा सा विज्ञेयां च चतुर्विधा // 20 // स्यात्समस्तोपमा तद्वदेकदेशोपमा परा। मालोपमा तृतीया स्थाचतुर्थी रसनोपमा // 21 // सेति / प्रकृतरूपं साहजिकं विकृतं रूपमौपाधिकम् // तासु समस्तोपमा यथा'अलिवलयैरलकैरिव कुसुमस्तबकैः स्तनैरिव वसन्ते / भान्ति लता ललना इव पाणिभिरिव किसलयैरधिकम् // 17 // "