________________ 104 काव्यमाला। अनेकेवशब्दा यथा.. 'दिने दिने सा परिवर्धमाना लब्धोदया चान्द्रमसीव लेखा / .. पुपोष लावण्यमयान्विशेषाज्योत्स्नान्तराणीव कलान्तराणि // 14 // - अत्र क्रियापदस्य वाक्यार्थद्वयैकतापत्तिहेतोः सकर्मकत्वात्कर्तुः कर्मणश्चोपमानात् पृथगिवशब्दप्रयोग इति सेयमभिधीयमानसादृश्या अनेकेवशब्दानाम वाक्यार्थोपमासु वाक्योपमाभक्तिः // दिन इति / सा गौरी दिने दिने प्रत्यहं परिवर्धमाना सती लावण्यमयान्कान्तिप्रधानान् विशेषानुत्कर्षान् पुपोष पुष्णाति स्म / कीदृशी / लब्धः प्राप्त उदय उपचयो यया सा / यथा चान्द्री लेखा कला प्राप्तोद्मा प्रत्यहं वर्धमाना च सती कलान्तराणि अन्यान्या कला धत्ते ज्योत्स्नात्तराणि च धत्ते तथेत्यर्थः / लावण्यं ज्योत्स्नास्थानीयम् , विशेषः कलास्थानीयः / यद्वा कलान्तराणि कीदृशानि / ज्योत्स्ना अन्तरा गर्भे येषु तानि / यद्वा ज्योत्स्नाया अन्तरोऽवकाशो येषु तानि / 'लेखा स्याल्लिपिकलयोः' इति विश्वः / चन्द्रमस इयं चान्द्रमसी / 'तस्येदम् 4 / 3 / 120' इत्यण् / 'लावण्यं चारुता मता' इति शाश्वतः / 'गर्भावकाशभेदेष्वन्तरं वाच्यलिङ्गवत् / ' इति मेदिनीकारः / इह पोषणरूपक्रियया वाक्यार्थयोरेकवाक्यता, सा च सकर्मकेति कर्तृकर्मणोः पृथगिवपदप्रयोगादनेकेवोपमेयम् // अनिवादिशब्दा यथा 'दिवो जागर्ति रक्षायै पुलोमारि वो भवान् / __अपुरास्तेन हन्यन्ते सावलेपा नृपास्त्वया // 15 // ' अत्र पुलोमारिवर्णनीययोर्यावाभूम्योरसुराणामवलिप्तपार्थिवानां च तुल्यक्रियासमावेशादिवादिमन्तरेणापि वाक्यार्थानां परस्परमुपमानोपमेयभावोऽवगम्यत इतीयमनिवादिशब्दानाम वाक्यार्थोपमासु वाक्योपमाभक्तिः / .. दिव इति / भवान् भूमे रक्षायै पुलोमारिरिन्द्रो दिवः स्वर्गस्य रक्षायै जागर्ति / तेनेन्द्रेणासुरा हन्यन्ते, त्वया नृपा हन्यन्ते / सावलेपाः सगर्वा इति नृपविशेषणम् / पुलोमनामा दैत्यभेदः स चेन्द्रेण हतस्तत्सुता पुलोमजेन्द्राणी च गृहीतेति पुराणम् / इह तुल्या समैकक्रिया जागरणरूपा हननरूपा च तद्दयघटित एवोपमानोपमेयभावः॥