________________ 4 परिच्छेदः / सरखतीकण्ठाभरणम् / 407 अत्र तन्त्रेण सदृशयोरनभिधानात्सादृश्यस्य पुनरुपमानोपमेयभावविवक्षितेन श्लेषतोऽन्यत्वे सतीतरेतरयोगेनोपमानोपमेययोरेकशेषेण च तद्विशेषणयोः समुदायेनाभिधानादिवादिमन्तरेणाप्युपमानादीनां चतुर्णामपि पूर्णत्वे सत्युक्तार्थत्वादिवादिलृप्यत इति पूर्णलुप्तानामेय पदार्थोपमासु वाक्योपमाभक्तिः // त्वदित्यादि / इदं विवृतं सदृशव्यतिरेकस्थले / तन्त्रेण प्राधान्येन / 'तन्त्रं प्रधाने सिद्धान्ते' इति मेदिनीकारः / यद्वा तन्त्रेण एकार्थप्रयोजकेनेह सदृशयोमुखपद्मयोः प्रधानाङ्गभावेनाभिधानं तुल्यता च पदार्थः / एवं च मिथोऽन्वयेनोपमानोपमेयत्वाभिधानम् / फुल्ले इति विशेषणद्वयम् / एकशेषेण हेतूपमानोपमेयतुल्यधर्मद्योतकपूर्णता। इवादिलोपस्तूक्तार्थत्वादतः पूर्णलुप्तेयम् / यत्र समकक्षतया द्वयोरभिधानं तत्र श्लेष एवेत्यतिव्याप्तिरत आह-श्लेषत इति / वाक्यार्थस्य वाक्यसापेक्षतया तद्भेदता // .. या तु वाक्यायोः सापि चतुर्थै केवशब्दिका / नैकेवशब्दिकेवादिशून्या वैधयंवत्यपि // 18 // ताखेकेवशब्दा यथा'पाण्ड्योऽयमंसार्पितलम्बहारः क्लृप्ताङ्गरागो हरिचन्दनेन / आभाति बालातपरक्तसानुः सानझरोद्गार इवाद्रिराजः // 13 // अत्र हिमवत्पाण्ड्ययोर्निर्झरहारयोर्बालातपहरिचन्दनयोश्च परस्परमुपमानोपमेयविवक्षायां विशेषणविशेष्यभावपरिकल्पनेन वाक्यार्थयोर्द्वयोरपि कल्पितत्वादेकेनैवेवशब्देन तयोः परस्परमुपमानोपमेयभावोऽभिहितः इतीयमेकेवशब्दानाम वाक्यार्थोपमासु वाक्योपमाभक्तिः / / एक एवशब्दो यस्यां सा // पाण्ड्य इति / अयं पाण्ज्यो राजभेदः शोभते / कीदृशः / अंसे स्कन्धेऽर्पितो दत्तो लम्बहारो येन सः। हरिचन्दनेन चन्दनमेदेन कृताङ्गानुलेपनश्च, अभिनवकिरणलोहितशृङ्गः प्रवहनिर्झरश्च हिमवानिवाभाति। इह द्वयोर्वाक्यार्थयोरुपमानोपमेयभाव एकेनैवेवपदेनोक्त इत्ये केवोपमेयम् //