________________ 4 परिच्छेदः / ] सरखतीकण्ठाभरणम् / 403 वति / एवमुष्ट्रकोशीखरनादीत्येतयोरपि द्रष्टव्यम् / सेयमुपमेयार्थप्रत्ययानाम प्रत्ययोपमासु पदोपमाभक्तिः // प्रत्यय इति / प्रत्ययार्थानां मेदादित्यर्थः / अस्फुटत्वेनाह-उदाहरणमिति / रूपव्यक्त्यै स्वरूपज्ञानाय / हंस इत्यादि / हे वाग्मिनि, प्रशस्तं वचनं यस्याः / यदि त्वं वदसि तदा हंसो ध्वाकविरावी काक इव विरौति, कोकिल उष्ट्रकोशी उष्ट्र इव क्रुश्यति शब्दायते, मयूरः खरनादी गर्दभ इव नदति / 'ध्वाहात्मघोषपरमृद्बलिभुग्वायसा अपि।' इत्यमरः / 'रासभो गर्दभः खरः' इति च / इह ध्वाङ्ग इव विरौतीत्यादौ 'कर्तर्युपमाने 3 / 2 / 79' इति णिनिप्रत्ययः उपमान उपपदे कर्तरि विहित उपमेयस्यार्थे भवति सामानाधिकरण्यानुरोधात् // प्रत्ययस्योपमानार्थे यथा 'पूर्णेन्दुकल्पवदना मृणालीदेश्यदोर्लता / चक्रदेशीयजघना सा खर्गेऽपि न दृश्यते // 6 // ' अत्र पूर्णेन्दुरिव पूर्णेन्दुरित्यादिकयोपचारवृत्त्या यद्यपि पूर्णेन्दुप्रभृतय उपमानशब्दा अप्युपमेयेषु वदनादिषु वर्तन्ते, तेभ्यश्च यद्यपि स्वार्थ एव खार्थिकाः कल्पबादयो भवन्ति, तथापि ते शब्दशक्तिखाभाव्यागुणभूतमुपमानार्थमात्रं ब्रुवते यथा शुक्लादिभ्यस्तरबादयः। तथा ह्ययं च शुक्लोऽयमनयोः शुक्लतर इत्युक्ते शौक्लयस्यैव प्रकर्षो गम्यते न शौक्लयवतः / सेयमुपमानार्थप्रत्ययानाम प्रत्ययोपमासु पदोपमाभक्तिः // पूर्णेत्यादि / सा स्वप्नेऽपि न दृश्यते / कीदृशी / पूर्णेन्दोरीषदसमाप्तं वदनं यस्याः सा / मृणाल्या ईषदसमाप्ता दोलता यस्याः सा। चक्रादीषदसमाप्तं जघनं यस्याः सा / इह कल्पेत्यादावीषदसमाप्तौ 'ईषदसमाप्तौ कल्पब्देश्यदेशीयरः 5 / 3 / 67' इति कल्पबादयः / इह पूर्णेन्द्वादय उपचारेणोपमेयवृत्तयस्तत्समभिव्याप्तकल्पबादिना खार्थिकप्रत्ययेन चोपमानार्थातिशय एवाभिधीयत इति प्रत्ययस्योपमानार्थता। इदमेवाह-शब्देति / गुणभूतमिति / अतिशयस्य प्रत्ययार्थत्वेन तन्निरूपकत्वमेव गुणत्वमित्यर्थः //