________________ 102 काव्यमाला। सर्वसमासा यथा 'शरदिन्दुसुन्दरमुखी कुवलयदलदीर्घलोचना सा मे। ____ दहति मनः कथमनिशं रम्भाग भिरामोरूः // 4 // अत्रोपमानोपमेयधर्माणामिन्दुसुन्दरादिपदैरिवार्थस्य समासेनैवाभि. धानम् , सर्व समासेऽस्यामिति सर्वसमासोपमानामेयं समासोपमासु पदोपमाभक्तिः // शरदित्यादि / ईदृशी सा स्त्री मम मनः कथमनिशं दहति / कीदृशी। शरच्चन्द्ररम्यमुखी नीलनलिनपत्रदीर्घनेत्रा कदलीमध्यसुन्दरोरूश्च / इहोपमानमिन्दुः, उपमेयं मुखम् , तुल्यधर्मः सुन्दरत्वम् / एवमन्यत्रापि / शरदिन्दुरिव सुन्दरं मुखं यस्याः सा इतीवार्थस्यापि समासाभिधेयता / सर्वः समासो यस्यामित्यादिविग्रहे विवक्षितार्थालाभ इत्यत आह-सर्वमिति // प्रत्ययोपमापि पदोपमाभेद एव न त्वधिकेल्याह या प्रत्ययोपमेत्युक्ता काव्यविद्भिः पदोपमा। चतुर्धा मिद्यते सापि प्रत्ययार्थप्रभेदतः // 10 // येति / पदप्रत्यययोरनुबोधनेऽन्योन्यापेक्षिततयोपमायामपि तथेति न भिन्नता॥ प्रत्ययो ह्युपमेये स्यादुपमानेऽपि कश्चन / तत्सामान्ये भवेत्कश्चिदिवार्थे कश्चिदिष्यते // 11 // तेषां वशात्तदुपमा भवेत्तद्यपदेशभाक् / .. उदाहरणमेवास्या रूपव्यक्त्यै निदर्श्यते // 12 // तत्र प्रत्ययस्योपमेयस्यार्थे यथा'हंसो ध्वाकविरावी स्यादुष्ट्रकोशी च कोकिलः / खरनादी मयूरोऽपि त्वं चेद्वदसि वाग्मिनि // 5 // अत्र 'कर्तयुपमाने 3 / 2 / 79' इत्यनेन यदोपमाने उपपदे ध्वाङ्क इव विरौतीति सामानाधिकरण्येन कर्तर्येव प्रत्ययस्तदोपमेयस्यार्थे भ