________________ 4 परिच्छेदः / सरखतीकण्ठाभरणम् / प्रसिद्धस्योपमेये समासेनैव प्रतिपादितत्वादियमन्तर्भूतसामान्या नाम समासोपमासु पदोपमाभक्तिः // चन्द्र इति / ‘चन्द्रसदृशं मुखमस्या अमृतसदृक्षश्च मुखरसस्तस्याः / सकचग्रहरभसोज्ज्वलचुम्बनं कस्य सदृशं तस्याः // ' कश्चिन्मनोविनोदार्थ वयस्याय कान्ताप्रकर्ष कथयति–चन्द्रेति / कचग्रहे केशपाशग्रहणे यो रभस आवेशस्तेन सहितमुज्वलं मनोज्ञं चुम्बनम् / इहान्तर्भूतं समासेन बोधितं सामान्यसाधर्म्य सौकुमार्यादिकमित्यन्तर्भूतसामान्या / न श्रूयते चेन्नास्त्येवेत्यत आह-प्रतीयत इति / द्योतकादितीति / सादृश्यस्य सप्रतियोगिकतया तत्प्रत्यायकत्वमेव द्योतकत्वमित्यर्थः / उपमानेति / उपमीयते सादृश्यमानीयतेऽनेनोत्कृष्टगुणेनान्यदित्युपमानमित्यर्थः / उपमेय इति / उपमीयते न्यूनगुणं यत्तदुपमेयमित्यर्थः // अन्तर्भूतोभयार्था यथा- .. 'कमलकरा रम्भोरू: कुवलअणअणा मिअङ्कवअणा सा / कहं णु णवचम्पअङ्गी मुणालबाहू पिआ तवइ // 3 // कमलकरा रम्भोरूः कुवलयनयना मृगाङ्कवदना सा / __ कथं नु नवचम्पकाङ्गी मृणालबाहुः प्रिया तैपति // ] अत्र कमलमिव ताम्रौ, रम्भे इव पीवरौ, कुवलयमिव श्यामे, मृगाङ्क इव प्रेक्षणीयं, नवचम्पकमिव गौरम् , मृणालमिव कोमलौ करो, ऊरू, नयने, वदनम् , अङ्गम् , बाहू यस्याः सा तथोक्तेत्यन्यपदार्थेन समासेनैव द्योतकसामान्ययोरुक्तत्वादियमन्तर्भूतेव सामान्या नाम समासोपमासु पदोपमाभक्तिः // कमलेत्यादि / 'कमलकरा रम्भोरू: कुवलयनयना मृगाङ्कवदना सा / कथं नु नवचम्पकाङ्गी मृणालबाहुः प्रिया दहति // ' इति / ईदृशी कान्ता कथं नु (न) दहति तापयति किंतु तापयत्येव / रम्भे कदल्याविवोरू यस्याः सा / नवचम्पर्क चम्पककलिका। इह कमलमिव ताम्रौ करौ यस्याः सेत्यादाविवशब्दो द्योतकः सामान्य ताम्रत्वादिकं तयोश्च समासेनैवोक्ततयान्तर्भूतोभयार्थेयम् // .: 1. 'दहति' इति टीकासंमतः पाठः, __ 26 स० क.