________________ : -- काव्यमाला। इवार्थान्तर्गतेरेका सामान्यान्तर्गतेः परा / अन्तर्भूतोभयार्थान्या सान्या सर्वसमासभाक् // 9 // समासादिति / समासोपमा इवार्थेत्यादिना चतुर्विधा // ताखन्तर्भूतेवार्था यथा'मुखमिन्दुसुन्दरं ते बिसकिसलयकोमले भुजालतिके / जघनस्थली च सुन्दरि तव शैलशिलाविशालेयम् // 1 // ' अत्र इन्दुरिव सुन्दरमिन्दुसुन्दरमितीवार्थः 'उपमानानि सामान्यवचनैः 2 / 1 / 25 / ' इति समासेनैवोक्तः / एवं बिसकिसलये इव कोमले शैलशिलेव विशालेति / सेयमन्तर्गतेवार्था नाम समासोपमासु पदोपमाभक्तिः // . मुखमित्यादि / हे सुन्दरि, तव मुखं चन्द्रवत्सुन्दरम् , तव भुजालतिके बिसकिसलयकोमले मृणालपल्लववत्कोमले, तव जघनस्थली शैलपाषाणवद्दीर्घा चेति पूर्वापेक्षया, वाक्यसमाप्तौ वा / इवार्थस्तुल्यता / भक्तिर्विभागः / 'भक्तिर्विभागे सेवायाम्' इति मेदिनीकारः // अन्तर्भूतसामान्या यथा'चन्दसरिसं मुहं से अमअसरिच्छो अ मुहरसो तिस्सा / सकअग्गहरहसुज्जल चुम्बणअं कस्स सरिसं से // 2 // [चन्द्रसदृशं मुखमस्या अमृतसदृक्षश्च मुखरसस्तस्याः / सकचग्रहरभसोज्वलचुम्बनकं कस्य सदृशं तस्याः // अत्र चन्द्रेण सदृशं चन्द्रसदृशं मुखम् , अमृतेन सदृक्षोऽमृतसदृक्षो मुखरस इति समासे सुन्दरमधुरादिसामान्यशब्दप्रयोगो न श्रूयते, प्रीयते च, सदृशादेयोतकादिति सामान्यधर्मस्य सौन्दर्यमाधुर्यादेरुपमान 1. गाथासप्तशत्यां तु 'सरिसो अमअस्स' इति पाठः: 2. 'सदृशोऽमृतस्य' इति छाया च समुपलभ्यते.