________________ 4 परिच्छेदः / ) सरस्वतीकण्ठाभरणम् / दीपकक्रमपर्यायातिशयश्लेषभाविकाः। संसृष्टिरिति निर्दिष्टास्ताश्चतुर्विंशतिर्बुधैः // 4 // शब्देभ्य इति / यासूभयालंक्रियासु इवादिभ्यः शब्देभ्यो विशिष्ट उपमादिरूपोऽर्थो ज्ञायते ता उभयालंक्रियाः स्युः / कीदृश्यः / कवीनां प्रियाः प्रीतिविषयाः, उपमादीनां कविसर्वस्वायमानत्वात् / शब्दश्वार्थश्चेत्युभयम् / सह तुल्ययोगितया वर्तते इति सतुल्ययोगिता / एवमितरेष्वपि / परिष्कृतिः परिकरः / भाविकैरिति सहार्थे तृतीया // अथोपमालंकारनिरूपणम् / प्रसिद्धरनुरोधेन यः परस्परमर्थयोः / भूयोऽवयवसामान्ययोगः सेहोपमा मता // 5 // उपमालक्षणमाह-प्रसिद्धेरिति / अर्थयोरुपमानोपमेययोमिथो यो भूयसां प्रचुराणामवयवसामान्यानामेकदेशसाधाणां योगः संबन्धः, सा इह ग्रन्थे [शास्त्रे ] उपमा मता / तर्हि मुखं कमलमिवेतिवत् कुमुदमिवेत्यपि स्यादत आहप्रसिद्धरिति / प्रसिद्धेर्लोकप्रसिद्धरनुरोधेन पुरस्कारेण / तथा च कुमुदमुखयोरुपमा न लोकप्रसिद्धति दोषः // एकाभिधीयमाने स्यात्तुल्ये धर्मे पदार्थयोः। प्रतीयमानेऽप्यपरा द्विविधापि च सा त्रिधा // 6 // . पदवाक्यप्रपञ्चाख्यैर्विशेषैरुपपद्यते / पृथगष्टविधत्वेन ताश्चतुर्विंशतिः पुनः॥७॥ इहाभिधीयमानार्थप्रतीयमानार्थविषयतयोपमा द्विधा / सापि पदवाक्यप्रपञ्चभेत्रिधा / सासां त्रिधाभूतानां प्रत्येकमष्टविधत्वेन चतुर्विंशतिप्रकारोपमेत्याहपदेत्यादि / पदोपमाया अष्टविधत्वमाह समासात्प्रत्ययाच्चैव द्विविधा स्यात्पदोपमा / या समासोपमा तत्र चतुर्धा साभिपद्यते // 8 //