________________ 398 काव्यमाला / उक्तार्थालंकाराणां संख्यामाह अर्थालंकृतयोऽप्येताश्चतुर्विंशतिसंख्यया / ____ कथिता काव्य विज्ञानां चित्तप्रह्लादहेतवे / / 55 // अर्थालंकृतय इति / स्पष्टम् // इति श्रीमहाराजाधिराजश्रीमद्भोजराजविरचिते सरस्वतीकण्ठाभरणनाम्यलंकारशास्त्रेऽर्थालंकारस्तृतीयः परिच्छेदः / श्रीरामसिंहदेवाज्ञामादाय रचितो मया। दर्पणाख्यः सदा तेन तुष्यतां श्रीसरखती // रत्नेश्वरो नाम कवीश्वरोऽसौ विराजते काव्यसुधाभिषेकैः / दुस्तर्कवाहतदुर्विदग्धां वसुंधरां पल्लवयन्नजस्रम् // अद्य स्फुरतु वाग्देव्याः कण्ठाभरणकौतुकम् / मयि ब्रह्ममनोवृत्तौ कुर्वाणे रत्नदर्पणम् // इति श्रीमन्महाराजश्रीरामसिंहेन महामहोपाध्यायमनीषिरत्नेश्वरेण विरचय्य प्रकाशिते दर्पणाख्ये सरखतीकण्ठाभरणविवरणेऽर्थालंकारस्तृतीयः परिच्छेदः समाप्तः // चतुर्थः परिच्छेदः / इदानीमुभयालंकारविवेचनाय परिच्छेदमारभते शब्देभ्यो यः पदार्थेभ्य उपमादिः प्रतीयते / / विशिष्टोऽर्थः कवीनां ता उभयालंक्रियाः प्रियाः // 1 // उपमा रूपकं साम्यं संशयोक्तिरपह्नुतिः। समाध्युक्तिः समासोक्तिरुत्प्रेक्षाप्रस्तुतस्तुतिः // 2 // सतुल्ययोगितोल्लेखः ससहोक्तिः समुच्चयः। . साक्षेपोऽर्थान्तरन्यासः सविशेषा परिष्कृतिः // 3 // 1. 'मताः' इति ख पुस्तकस्थः पाठः.