________________ 3 परिच्छेदः।] सरस्वतीकण्ठाभरणम् / 397 प्रध्वंसप्रागभावो यथा'न मर्त्यलोकस्त्रिदिवात्प्रहीयते म्रियेत नाग्रे यदि वल्लभो जनः / प्रध्वंसध्वंसो यथानिवृत्तमेव त्रिदिवप्रयोजनं मृतः स चेन्जीवित एव जीवति // 18 // ' वल्लभजनमरणं प्रध्वंसः स ना निषिध्यते स तु निषेधः प्रागसत्त्वरूप एव / मृतः स चेदिति मरणोत्तरमभावो भवत्प्रध्वंसो भवति स चासंभवन्नपिशब्देन संभाव्यमानः कान्तिकारणं भवतीत्यलंकारकक्षामारोहति // प्रध्वंसप्रागभावप्रध्वंसो यथा- . .. 'नामिलितमस्ति किंचित्काञ्चीदेशस्य सर्वथा नाथ / प्रसरतु करस्तवायं प्रकृति कृशे मध्यदेशेऽपि // 185 // ' प्रध्वंसप्रागभावप्रध्वंस इति / मरणेन प्रध्वंसनं तस्याभावः समस्तेन न जातस्याप्यभावो भिन्नेन प्रतिपादितः // प्रध्वंसस्य प्रध्वंसाभावो यथा'एषा प्रवासं कथमप्यतीत्य याता पुनः संशयमन्यथैव / को नाम पाकाभिमुखस्य जन्तोराणि दैवान्यपिधातुमीष्टे // 186 // ' प्रध्वंसस्य प्रध्वंसाभाव इति / कथमपीत्यनेन प्रवासे दशम्यवस्था कटाक्षिता तस्यात्ययः प्रध्वंसप्रध्वंसः / पुनः संगममित्यनेन तस्यापि प्रध्वंसः / सुबोधमन्यत् // इतरेतराभावाभावो यथा'शासनेऽपि गुरुणि व्यवस्थितं कृत्यवस्तुनि नियुक्ष्व कामतः / त्वत्प्रयोजनधनं धनंजयादन्य एष इति मां च मावगाः // 187 // ' अत्यन्ताभावस्य सामर्थ्याभावस्य च प्रध्वंसाभावो यथा'अनाप्तपुण्योपचयैर्दुरापा फलस्य निर्धूतरजाः सवित्री। तुल्या भवदर्शनसंपदेषा वृष्टेर्दिवो वीतबलाहकायाः॥ 188 // ' एते नातिदुर्बोधा इति न व्याकृताः //