________________ 396 काव्यमाला। इतरेतराभावो यथा--. ... / 'कर्णोत्पलं न चक्षुस्ते न चक्षुः श्रवणोत्पलम् / इति जानन्नपि जनो मन्यते नेत्रदीर्घताम् // 179 // .. अत्यन्ताभावो यथा-.. ' 'जं जस्स होइ सारं तं सो देइत्ति किमत्थ अच्छेरम् / अणहोत्तं वि हु दिण्णं तइ दोहग्गं सवत्तीणम् // 180 // [यद्यस्य भवति सारं तं स ददाति किमत्राश्चर्यम् / अभवदपि खलु दत्तं तया दौर्भाग्यं सपत्नीनाम् // ] अन्ये पुनरन्यथा अत्यन्ताभावमाचक्षते / यथा'प्रसीद सद्यो मुञ्चेमं चण्डि मानं मनोगतम् / दृष्टमात्रेऽपि ते तत्र रोषः खकुसुमायते / / 181 // ' स्थानान्तरप्रमितस्य स्थानान्तरे त्रैकालिकोऽभावविशेषोऽत्यन्ताभाव इति दर्शनमाश्रित्य चतुष्टयमध्यपाती तावदत्यन्ताभाव उदाहृतः / इदानीं पञ्चमाभावोचितविशेषमत्यन्ताभावं दर्शयति-अन्ये पुनरिति / अन्ये सौगतादयः / अत्यन्तासत्प्रतियोगिकोऽभावोऽत्यन्ताभावः / यथा खपुष्पस्याभाव इत्युदाहरणं स्फुटम् // सामर्थ्याभावो यथा'मानुषीषु कथं वा स्यादस्य रूपस्य संभवः / न प्रभातरलं ज्योतिरुदेति वसुधातले // 182 / ' त एते षडपि निगदैरेव व्याख्याताः // सामर्थ्याभावो योग्यताभावः / अनेनैव रूपेण स रसतामासादयन्नुपात्तः // अभावाभावोऽप्यभाव एव / तत्र प्रागभावप्रध्वंसो यथा'उद्यानसहकाराणामनुद्भिन्ना न मञ्जरी / देयः पथिकनारीणां सतिलः सलिलाञ्जलिः // 183 // अभाव एवेति / अभावव्यवहारपात्रमेव तथाभूतस्यैव लक्षणमित्युक्तं पुरस्तात् //