________________ 3 परिच्छेदः। सरखतीकण्ठाभरणम् / 395 लक्ष्यते / ते चान्योपदेशादसंभवन्तो मन्मथमुपाध्यायं बोधयन्ति / तस्याप्रतः पार्श्वतो वानुपलभ्यमानस्य तन्मनस्यवस्थानं लक्ष्यते / सेयमाद्या प्रत्यक्षपूर्विका द्वितीया चार्थापतिपूर्विकार्थापत्तिर्भवति / इयमेव च मनोभूर्मनसि कामिनीनां संभवतीत्याप्तोपदेशादागमपूर्विकापि भवति // इत्थमेवान्यथोपपत्तिमाशयाग्रे व्याचष्टे–अत्र विभ्रमिणीमिति / मत्वर्थीयार्थमाह-प्रशंसायामिति // असत्ता या पदार्थानामभावः सोऽभिधीयते। प्रागभावादिभेदेन स पइविध इहेष्यते // 54 // अभावं लक्षयति-असत्तेति / प्रागसत्त्वमुत्तरासत्त्वमित्यसत्तारूपेणैव प्रागभावादयो व्यवतिष्ठन्ते इतरेतराभावेऽप्यन्यरूपतयान्यस्याभाव इत्यसत्तात्मकत्वम् / प्रागभावादयः पूर्वोदिताश्चत्वारः / अत्यन्ताभावविशेषसामान्याभावाभ्यां सह षडभावाः / तयोर्विशेषमग्रे वक्ष्यामः // तेषु प्रागभावो यथा. . 'सग्गं अपारिजाअं कोत्थुहलच्छीविरहिअं महुमहअस्स उरम् / . सुमरामि महणपुरओ अमुद्धचन्दं च हरअडापब्भारम् // 177 // ' स्वर्गमपारिजातं कौस्तुभलक्ष्मीविरहितं मधुमथनस्योरः / स्मरामि मथनपुरतोऽमुग्धचन्द्रं च हरजटाप्राग्भारम् // ] सग्गं अपारिजाअमिति / निगदव्याख्यातः प्रागभावः / यथा अभावपूर्विकायामापत्तौ करणं भेदानुमानमुक्तं तथात्रापि बोद्धव्यम् / पारिजातप्रागभावस्य प्रमेयरूपता व्यक्तैव / अभावोऽभावेनैव प्रतीयत इति / दर्शने तत्करणतया शब्दानुपात्तोऽपि योग्यप्रमाणभावोऽवगम्यते / एवमुत्तरेष्वपि खयमूहनीयम् // प्रध्वंसाभावो यथा'धृतिरस्तमिता गतिश्युता विगतं गेयमृतुर्निरुत्सवः / गतमाभरणप्रयोजनं परिशून्यं शयनीयमद्य मे // 178 // ' स्वगमपारिजात