________________ 394 काव्यमाला। . एकशोऽनुमानपूर्विका यथा 'कपोलपुलकेनास्याः सूचितो मदनज्वरः / मनो निरन्तरासक्तं सख्यः कथयति प्रिये // 173 // अत्र योऽयं कपोलपुलकानुमीयमानो मनोभवज्वरः स मनसः प्रिये निरन्तरासक्तिमन्तरेणानुपपन्न इत्यनुमानपूर्विकेयमर्थापत्तिः // अनेकश उपमानादिपूर्विका यथा'त्वदास्येन्दू समौ दृष्ट्वा तदिदं कल्पयामहे / अन्योन्यगामिलावण्यमनयोरेव केवलम् // 174 / / अत्र त्वदास्येन्दू समौ दृष्ट्वेत्युपमानपूर्वकता अर्थापत्तेः प्रत्यक्षपूर्वता च शब्दत एव प्रतीयते / या च मिथः सादृश्यानुपपत्तिलभ्या लावण्यान्योन्यगामिता सापि तथाविधं विधातारमन्तरेण न संगच्छत इत्यादीहापि पूर्ववद्वाक्यार्थसामर्थ्यतोऽवगन्तव्यम् // एकशोऽभावपूर्वा यथा'एतदास्यं विना हास्यं निवेदयति सुभ्रवः / प्रियापराधदण्डानां मनो भाजनतां गतम् // 175 / ' अत्र सुध्रुव इत्यनेन विलासवत्याः समस्तप्रशस्तलक्षणयोगो लक्ष्यते / तथाविधायाश्च वऋविलासहासस्याभावोऽनुपपद्यमानः शोकव्यतिरिक्त. मात्मकारणं कल्पयतीत्यभावपूर्विकेयमापतिः // हास्यभावस्यान्यथाप्युपपत्तेः कथमर्थापत्तिरित्यत आह-अत्र सुध्रुव इति // अनेकशोऽर्थापत्त्यादिपूर्विका यथा__ 'दृष्ट्वा विभ्रमिणीमेतां विद्मो लीलागुरुं स्मरम् / ___ स्मरं च मृगशावाझ्या मनस्यस्याः कृतास्पदम् // 176 // अत्र विभ्रमिणीमिति प्रशंसायां मत्वर्थीयस्तेन विप्रमाणामुत्कर्षों