________________ 3 परिच्छेदः।] सरस्वतीकण्ठाभरणम् / 393 धारणशक्तिमन्तरेण तत्कर्मासमर्थमिति तस्यापि शक्तिः कल्प्यते / सेयमापत्तिपूर्विकार्थापत्तिः। यश्चायमर्थापत्तिविकल्पस्य मध्यस्योपलम्भाभावः सोऽपि प्रकारान्तरेणासंभवन् कान्तिकार्ययोरुत्कर्षं ब्रूते / सा चेयमभावपूर्विकानुपपत्तिर्भवति / न चैतदिह शाब्दमपि तु वाक्यार्थसामर्थ्याद्गम्यते // अत्र स्तनभरेति / स्तनभरस्थितिः प्रत्यक्षगृहीता सा चाधारमन्तरेणानुपपद्यमाना मध्यं कल्पयति / सा च कल्पनार्थापत्तिः / अनुपलभ्यमानमिति / अन्यथा प्रत्यक्षगृहीतेऽर्थे किमर्थापत्त्या / अत्रैवोदाहरणेऽनेकशो व्याख्यातुं शक्यत इत्याह-इयमपीति / शक्तिर्मीमांसकनये नित्यातीन्द्रिया, अभावोऽभावेनैव गृह्यत इति मध्यानुपलम्भोऽभावप्रमाणपूर्वकः / कान्तीति / अद्भुतप्रभावतिरस्कृतं हि नयनमासन्नमपि न मध्यग्रहणसमर्थमिति भावः // प्रत्यक्षादिपूर्विका अनेकशः यथा'एतदालोक्य लोलाक्षि रूपमप्रतिमं तव / कल्पयामः कलातत्त्वगुरुतामादिवेधसः // 172 // तत्रेदं रूपमप्रतिमं तवेति प्रत्यक्षपूर्वता अभावपूर्वता च व्यक्तमेव प्रतीयते / तेनेयमनेकशः / अत्रापि येयं रूपस्याप्रतिमतान्यथानुपपद्यमाना कलातत्त्वगुरुविनिर्मितत्वमात्मनोऽवस्थापयति सोर्वश्यहल्यादिरूपोपमानज्ञानपूर्विका, या तत्कर्तुरापत्तिकल्पिता कलातत्त्वगुरुता सापि तथाविधक्तिकल्पनापूर्विकेत्युपमानपूर्विकार्थापत्तिपूर्विका चेयमर्थापत्तिः। सापि तत्कतुर्वेधसः कलातत्त्वगुरुता तथाभूतशक्त्याधारता वा, साप्यनुमानत आगमतो वाज्ञस्य करप्यत इत्यनुमानपूर्विका चेयमापत्तिः / न चैतच्चतुष्टयमिहापि शाब्दमपि तु वाक्यार्थसामर्थ्यागम्यते // अप्रतिममिति / प्रतिमाशून्यं रूपं विशिष्टमेव तत्र विशेषणांशेऽभावस्य व्यापारः, विशेष्यांशे प्रत्यक्षस्य / पूर्ववदिहापि व्याख्यानमाह-अत्रापीति / प्रतिमाभावज्ञानं प्रतिमाज्ञानपूर्वकम् , प्रतिमा च सादृश्यं, तच्च सहशब्दद्वयदर्शनवेद्यमित्यस्ति पूर्वमुपमानम् //