________________ 392 . काव्यमाला। यम् / यदा तु चित्रादिष्वनुभूतखमुखदर्शनायाः प्रतिबिम्बदर्शनादनेन सदृशं मे मुखमिति प्रतिपत्तिदृष्टप्रियतमाकारायाश्च प्रतिबिम्बाकारदर्शनादेतदाकारो मम प्रेयानिति प्रतिपत्तिः प्रतिबिम्बसंनिधौ प्रतिबिम्बोदयो दृष्टस्तदिह संनिहितेन तेन भवितव्यमिति यो ब्रीडाविकारभूतस्तदानुभूतविषयमेतदुपमानं प्रतिबिम्बमित्याचक्षते // / प्रतिबिम्बसंनिधाविति / प्रसङ्गाद्यदर्थमनुमानं व्याख्यातं तद्दर्शयतिव्रीडाविकार इति / अतएव प्रधानमात्रस्योपसंहारः // 'प्रत्यक्षादिप्रतीतोऽर्थो यस्तथा नोपपद्यते / अर्थान्तरं च गमयत्यापत्तिं वदन्ति ताम् // 52 // अर्थापत्तिं लक्षयति-प्रत्यक्षादीति / प्रमाणप्रतीतस्यार्थस्यान्यथाकरणानुपपत्तिज्ञानेन प्रसूतं ज्ञानमर्थापत्तिः / अनुपपद्यमानार्थप्रत्यायकं च प्रमाणे प्रत्यक्षादिभेदात् षट्प्रकारम् / ततस्तत्पूर्वार्थापत्तिरपि षोढा संपद्यते, यदर्थान्तरं गमयति तामापत्तिं वदन्तीति / अर्थान्तरगतिरेवार्थापत्तिरिति व्यक्तम् // सर्वप्रमाणपूर्वत्वादेकशोऽनेकशश्च सा / - प्रत्यक्षपूर्विकेत्यादिभेदैः षोढा निगद्यते // 53 // एकश इति / एकश एकप्रमाणपूर्वा / अनेकशोऽनेकप्रमाणपूर्वा / कथं तर्हि षोढा / अत उक्तम्-प्रत्यक्षपूर्विकेत्यादिभेदैरिति / व्याख्यातमेतत् // ताखेकशः प्रत्यक्षपूर्विका यथा.'निर्णेतुं शक्यमस्तीति मध्यं तव नितम्बिनि / ..अन्यथानुपपत्त्यैव पयोधरभरस्थितेः // 171 // अत्र स्तनभरनितम्बयोर्मध्यं नोपलभ्यते, स्तनभरावस्थानं च दृश्यते, तत्र येयं पयोधरभरस्थितिः सान्यथानुपपद्यमाना धास्त मध्यमनुपलभ्यमानं बोधयति / सेयं प्रत्यक्षपूर्विकार्थापत्तिरेकश एवेह विवक्षिता / इयमपि ह्येवं बहुशो भवति यत्तदर्थापत्तिलब्धं मध्यं तदपि