________________ 3 परिच्छेदः / सरखतीकण्ठाभरणम् / 391 चित्राकारायास्तत्तच्छन्दाभिधेयताप्रतिपत्तिरुपमानमिति / कथं चित्रे कामादिपदप्रयोग इत्यत आह-आकृताविति / रेखोपरेखादिसंनिवेशे चित्रतुरगन्यायेनेति भावः // मुद्रा यथा'सचकितमिव विस्मयाकुलाभिः शुचिसिकताखतिमानुषाणि ताभिः / क्षितिषु ददृशिरे पदानि जिष्णोरुपहितकेतुरथाङ्गलाञ्छनानि 164 - अत्र चक्रध्वजाङ्कितजिष्णुपादमुद्रादर्शनात्सेयममानुषी पादमुद्रा भवतीति संज्ञासंज्ञिसंबन्धप्रतिपत्तिस्तदिदमननुभूतार्थविषयमुपमानमेव मुद्रेत्युच्यते / यदपि चादृष्टेऽपि जिष्णुपदे मृगीदृशामीदृशः स इत्यनुमानज्ञानं तदप्युपमानार्थनिबन्धनमेव / यदाह 'अपि चास्त्यनुमानेऽपि सादृश्यं लिनलिङ्गिनोः। पदेन यत्र कुजेन कुंजपादोऽनुमीयते // 169 // ' सचकितेति / ननु चरणमुद्रया जिष्णुचरणानुमानमत्र प्रतिभाति तत्कथमुपमानेऽन्तर्भाव इत्यत आह-यदपि चेति / अत्राविशेषस्य चरणविशेषप्रतिबन्धे सत्यपि सदृशात्सदृशज्ञानमुत्पन्नं [त्कटं] तादृशेन च व्यपदेशो भवतीत्यर्थः। एतदेव दार्वाचार्यसंमत्या द्रढयति-अपि चेति / प्रतिबिम्बं यथा'दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः / वीक्ष्य बिम्बमनुबिम्बमात्मनः कानि कान्यपि चकार लज्जया 170' अत्र यदा तावदेवं संबन्धग्रहः कीदृशं खं मुखं यादृशमादर्शे प्रतिबिम्बं तदालोकनाददृष्टेऽपि स्वमुखे येयमीदृशं मे मुखमिति प्रतिपत्तिस्तदिदमनुभूतार्थविषयम् / यदा पुनरित्थमाप्तोपदेशाद्यादृशं वस्तु तादृशमादर्शादौ प्रतिबिम्बं तदापि प्रियप्रतिबिम्बालोकनादिदं तम्मम प्रियप्रतिबिम्बमितीयं संज्ञासंज्ञिसंबन्धप्रतिपत्तिस्तदप्यननुभूतार्थविष