________________ 3 परिच्छेदः।] सरस्वतीकण्ठाभरणम् / 387 न पदा स्पृशेत्' इत्यध्याहारो भवति / सोऽयं निषेधरूप आगमः / उभयमप्येतन्नावश्यानुष्ठेयमिति मध्यमम् // - तदिदमनिर्दिष्टवक्तृकमिति / एतेनैतिह्यमागम एवान्तर्भूतमिति दर्शितम् ; अज्ञातवक्तृकस्यागमस्यैव तथा प्रसिद्धेरिति / अत्रापीति / पिशाचवासादिभिरनुवादैः पूर्ववद्विधयः कल्प्यन्ते // जघन्यं द्विधा / काम्यं निषिद्धं च / तयोः काम्यं यथा'मुण्डइआचुण्णकसाअसाहिअं पाणणावणविईणम् / तेलं पलिअत्थणीणंवि कुणेइ पीणुण्णए थणए // 162 // ' [मुण्डितिकाचूर्णकषायसाधितं पाननावनवितीर्णम् / तैलं पतितस्तनीनामपि करोति पीनोन्नतौ स्तनौ // ] तदेतत्पूर्ववद्विधिरूपं काम्यमाप्तवचनम् // मुण्डइआ इति / मुण्डितिका अलम्बुसा। कषायः क्वाथो जलम् / नावनं नस्यम् / काम्यमिति / पीनोन्नतस्तनकामनावतीमिरेव क्रियमाणत्वात् // निषिद्धं यथा--- 'वयं बाल्ये बालास्तरुणिमनि यूनः परिणता वपीच्छामो वृद्धान्परिणयविधौ नः स्थितिरियम् / त्वयारब्धं जन्म क्षपयितुमकाण्डेन विधिना __न नो गोत्रे पुत्रि कचिदपि सतीलाञ्छनमभूत् // 163 // तदेतन्निषेधरूपं निषिद्धमेवाप्तवचनम् / उभयमपि चैतन्मूलकारिभिः संसृज्येतेत्यादिदोषान्नानुष्ठेयमिति जघन्यम् // त्वयारब्धमित्यादौ गणिकया सतीचारित्र्यवत्या न भवितव्यमिति स्फुटो निषेधविधिर्जघन्यत्वं व्याचष्टे-उभयमपि चैतन्मूलकारिभिरिति // सदृशात्सदृशज्ञानमुपमानं द्विधेह तत् / स्यादेकमनुभूतेऽर्थेऽननुभूते द्वितीयकम् // 50 // 1. 'मनेनैकपतिना' इति पाठः पुस्तकान्तरे.