________________ 386 काव्यमाला। निषेधरूपं यथा'निवार्यतामालि किमप्ययं बटुः पुनर्विवक्षुः स्फुरितोत्तराधरः। न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स पापभाक् 159' 'अत्रोत्तरा|क्तनिषेधानुवादवर्धितव्युत्पत्तेर्वयस्याया योऽयमपवदमानबटुनिवारणोपदेशस्तस्य महान्तो नापभाषितव्या इति वाक्यार्थे तात्पर्यादयं निषेधरूप आगमः / तदेतदुभयमप्यवश्यानुष्ठेयत्वादुत्तमम् // ननु 'न केवलं यो महतोऽपभाषते' इत्यादि वर्तमानापदेशात्कथं विधित्वमत आह-अत्रोत्तरार्धेति / अपभाषणस्य निन्दार्थवादेन निषेधविधिः कल्प्यते, तेन महान्तो नापभाषितव्या इति वचनव्यक्तिरुनीयत इति // मध्यमं द्विधा। निर्दिष्टवक्तृकमनिर्दिष्टवक्तृकं च। तयोराचं यथा'कल्याणी बत गाथेयं लौकिकी प्रतिभाति मा। एति जीवन्तमानन्दो नरं वर्षशतादपि // 160 // __ अत्र जीवन्नरः पश्यति भद्रमित्ययमेवार्थो निर्दिष्टवक्तृकस्तदेतत्स वाक्यानां विधिनिषेधयोः पर्यवसानात् प्राणेषणायां यतितव्यमिति विधिरूपमाप्तवचनम् // ___ अत्र जीवन्नर इति / एषा चिरंतनी लोकगाथा / तन्मूलत्वं 'एति जीवन्तम्-' इत्यादेरागमस्य / अत्रापि प्राग्वदेव स्तुत्यर्थवादेन जीवनाय यतितव्यमिति विधिः कल्प्यते / तदिदमुक्तं सर्ववाक्यानामिति // द्वितीयं यथा'अक्षे वसति पिशाचः पिचुमन्दे दिनपतिवटे यक्षः / विश्राम्यति पद्मे श्रीस्तिष्ठति गौरी मधूकतरौ // 161 // - तदिदमनिर्दिष्टवक्तकमनादिलोकप्रसिद्धिपरम्परायातमैतिह्यम् / अत्रापि सर्ववाक्यानां विधिनिषेधयोः पर्यवसानात्-'तस्मादक्षं न सेवेत, पिचुमन्दं न कृन्तेत, वटं न छिन्द्यात्, पद्मं न मूर्ध्नि बिभृयात्, मधूकं