________________ 3 परिच्छेदः।] सरखतीकण्ठाभरणम् / 385 अत्रोत्कण्ठालक्षणेन कार्येण वसन्तः कारणभूतोऽनुमीयत इति सामग्रीपक्षे इदं शेषवदित्युच्यते // - एत्तमिति / चूतमजरीमलयपवनयोरग्रे समुत्कण्ठितमत्र चमत्कारास्पदम् / तथाहि / यथा प्रियस्य संनिधास्यतः संभावना लोकोत्तराभिमानप्रतिष्ठिता भवति न तथा संनिधानमिति सहृदयसाक्षिकोऽयमर्थः / एवं सामान्यतो दृष्टोदाहरणे बोध्यम् // सामान्यतो दृष्टं यथा 'आविर्भवन्ती प्रथमं प्रियायाः सोच्छासमन्तःकरणं करोति / . निदाघसंतप्तशिखण्डियूनो वृष्टेः पुरस्तादचिरप्रभेव // 157 // ' - सेयं विद्युदिव दृष्टिं कामन्दक्यपि प्रथमत उपलभ्यमाना अविनाभावेन मालत्यागमनं गमयतीति सामग्रीपक्षे सामान्यतो दृष्टमेतत् // यदाप्तवचनं तद्धि ज्ञेयमागमसंज्ञया / उत्तमं मध्यमं चाथ जघन्यं चेति तत्रिधा // 49 // यदाप्तवचनमिति / आप्तो यथार्थशब्दवक्ता / उत्तमं श्रुतिमूलम् / अत एव तस्यावश्यानुष्ठेयत्वाभिधानम् / मध्यममनादिलोकव्यवहारमूलं तदेव नावश्यानुष्टेयमित्यनेन प्रकाशयिष्यते / उभयविधाबहिःफलसंवादि जघन्यम् // तत्रोत्तमं द्विधा / विधिरूपं निषेधरूपं च / तयोर्विधिरूपं यथा'दमं दानं दयां शिक्षेः स्तनयित्नुर्वदत्यसौ / ददध्व इति वाग्दैवी दयध्वं दत्त दाम्यत // 158 // अत्र चैषा दैवी वागनुवदति, यत् स्तनयित्नुर्ददध्व इति दयध्वं दत्त दाम्यतेति तदेतत्रयं शिक्षेत दमं दानं दयाम्' इति श्रुतेस्तदेतद्विधिरूपमाप्तवचनम् / / ददध्व इति / जलदध्वनितनानानादस्यानुकरणं तत्रितयव्याजेन जलधरो वदति / दयध्वं दत्त दाम्यतेति दैवी वागतो दमदानदयाः कर्तव्या इति विधिः पर्यवस्यति / बुद्धीन्द्रियनियमो दमः। दानदये प्रसिद्धे। मूलभूतां श्रुतिं दर्शयतिअत्र चैषेति / 25 स० क०