________________ . काव्यमाला। __यदा पुनः करणसाधनोऽनुमानशब्दस्तदानुमीयतेऽनेनेत्यनुमानशब्देन यथोक्तं लिङ्गमुच्यते / यदाह 'अनुमेयेन संबद्धं प्रसिद्धं च तदन्विते / तदभावे च यन्नास्ति तल्लिङ्गमनुमापकम् // 154 // अनुमेयेनेति / अनुमेयेन पक्षण तस्यैव साध्यवत्तयानुमेयत्वात् / यदाह'स एव चोभयात्मायं गम्यो गमक इष्यते / प्रसिद्धेनैकदेशेन गम्यः सिद्धेन बोधकः॥' इति / तदन्विते साध्यान्विते / प्रसिद्धं प्रकर्षण सिद्धम् / व्याप्यतयाधिगतम् / तदभावे साध्याभावे / यतोऽनुमापकं सतो लिङ्गम् // तत्पूर्ववति यथा'अइ सहि वकुल्लाविरि च्छुहिहिसि गोत्तस्स मत्थए छारम् / . अच्चंतदत्तदिटेण सामि वलिएण हसिएण // 155 // [अयि सखि वकालापैश्छादयिष्यसि गोत्रस्य मस्तके भस्म / अत्यन्तदत्तदृष्टेन सामि वलितेन हसितेन // ] अत्रैवंप्रकारया वक्रोक्तया एवंविधेन हसितेनोपलक्षितत्वमग्रतो गोत्रं दूषयसीति कारणतो यत्र कार्यानुमानं तदिदं सामग्रीपक्षे पूर्ववदित्युच्यते // पूर्ववतीति / पूर्व कारणमनुमापकं यस्यास्ति तत्पूर्ववल्लिङ्गं तस्मिन् / ननु मापयितव्ये लिङ्गज्ञानविषयतया पूर्व कारणमाश्रयतीति पूर्ववत् / सोऽयमर्थः सप्तम्या द्योतितः / कारणत इति / यथाहि वक्र आलापो मुग्धाङ्गनाप्रकृत्यौचित्यागतं हसितं ध्वननशक्त्या विषयतया कान्तिमर्पयति न तथा शब्दाभिलपितं चारित्र्यखण्डनमिति साहित्यमुद्राविदामतिप्रकाशमेव // शेषवति यथा'दीसइ ण चूअमउलं अत्ता ण अ वाइ मलअगन्धवहो / एत्तं वसन्तमासो सहि जं उत्कण्ठिअं चेअम् // 156 // ' . [दृश्यते न चूतमुकुलमद्य न च वाति मलयगन्धवहः / एति वसन्तमासः सखि यदुत्कण्ठितं चेतः॥]