________________ 3 परिच्छेदः / सरखतीकण्ठाभरणम् / 383 . कार्यभूतविरहिणीनामिति / पथिकगहिनीनां दशम्यवस्था ज्ञायमाना वाक्यार्थः / अतः फलोपन्यासदत्तभरमेवेदं काव्यमित्यभिप्रायः / आयातश्चेजलदागमतदा पूर्वप्रवृत्त इव पथिकनारीविनाशो लक्ष्यत इति निष्ठाप्रत्ययेन द्योत्यते // यत्र कार्यं दृष्ट्वा कारणमनुमीयते तच्छेषवद्यथा'सावज्ञमागमिष्यन्नूनं पतितोऽसि पादयोस्तस्याः / कथमन्यथा ललाटे यावकरसतिलकपटिरियम् / / 152 // ' : अत्र यावकरसतिलकपड़ेः कार्यभूतायाः कारणभूतं पादपतनमनुमीयते / तेनैतच्छेषः कार्यमिहास्तीति शेषवदुच्यते // __ कथमन्यथेति / नेयमापत्तिः; किंतु तथाभूता नायकस्य ललाटेऽलक्तकबिन्दुविशेषपतिः प्रमदापदावपातप्रतिबद्धति / न चालक्तकबिन्दुपङ्क्तिज्ञानं तथा खदते यथा विपक्षचरणावनमनानुमेयस्य ज्ञानं फलभूतम् , तत्किल विपक्षगोचरामीा व्यञ्जयद्विप्रलम्भप्रकर्ष पुष्णाति // - यत्र न कार्य न कारणं केवलमविनाभावमात्रं प्रतीयते तत्सामान्यतो दृष्टं यथा 'गजन्ते खे मेहा फुल्ला णीवा पणद्दिआ मोरा / गट्ठो चन्दुज्जोओ वासीरन्तो हला पत्तो // 153 // " गर्जन्ति खे मेघाः फुल्ला नीमाः प्रनर्तिता मयूराः / नष्टश्चन्द्रोद्दयोतो वर्षर्तुः सखि प्राप्तः // ] . अत्र वर्षर्तुरविनाभूतैर्मेघगर्जितादिभिः सामान्येनैवानुमीयत इति सामान्यतो दृष्टमिदम् / तान्येतानि भावसाधनेऽनुमानशब्दे फलपक्षे उदाहरणानि भवन्ति // गजन्त इति / अत्र समसमये मेघगर्जितादिभिः कालोपाधिभिरनुमानं तेन कार्यकारणभावः / अत्र हि न पृथमेघगर्जितादिज्ञानं तथा चमत्कारमावहति यथा वर्षारात्रिज्ञानप्रतिबद्धम् / स हि ज्ञातः केतककर्णपूरादिविदग्धनेपथ्यपरिग्रहौत्सुक्यं प्रवासिनायकागमनौत्सुक्यं वा जनयतीति फल एव भरः //