________________ 382 काव्यमाला। यदालोक्याहादं हूद इव निमज्ज्यामृतमये दधत्यन्तस्तत्त्वं किमपि यमिनस्तत्किल भवान् // 150 // ' अस्यात्मविषयता व्यक्तैव योगिभिरुद्दीयते // योगिभिरिति / निदिध्यासनबललब्धात्मनो ज्ञानस्य योगिमात्रे प्रसिद्धविषयत्वान्न ह्यस्मदादयस्तथा तं परिचिन्वन्ति यथा योगिन इत्यर्थः // अनुमानलक्षणमाह लिङ्गाद्यल्लिङ्गिनो ज्ञानमनुमानं तदुच्यते / पूर्ववच्छेषवच्चैव दृष्टं सामान्यतश्च यत् // 47 // .. - लिङ्गादिति / यस्य येन सहाविनाभावलक्षणा व्याप्तिः संदिग्धसाध्यधर्मधमिरूपपक्षवृत्तितारूपा पक्षधर्मता च गृह्यते तस्मात्तस्थ प्रतीतिरनुमानं यथा धूमाद्वह्नः / स हि यथाविधे सिद्धस्तथाविधसंनिधानं सूचयति / तत्र यस्मात्प्रतीतिरुत्पद्यते तत् लिङ्गं चिह्नम् / व्याप्तिविशिष्टपक्षे धर्मतासंज्ञापकमित्यर्थः / इतरलिज ज्ञापकमस्यास्तीति कृत्वा / पूर्ववच्छेषवत्सामान्यतोदृष्टभेदात्रिविधमनुमानमग्रे ग्रन्थकृतैव व्याख्यातमिति न वितन्यते // फलसामग्र्यभेदेन द्विधैतद्भिद्यते पृथक् / उदाहरणमेवैषां रूपव्यक्त्यै भविष्यति // 48 // फलसामग्येति / यद्यपि ज्ञानमनुमानमित्युक्तं तथापि तस्य साधारणमेव क्वचिदनुपन्यासप्रधानं वाच्यम् , क्वचित्करणीभूतलिङ्गपरामर्शोपन्यासप्रधानमिति भवति यथोक्तो विशेषः / अनुमानशब्दो हि भावल्युडन्तः करणे ल्युडन्तो वा। आये फलं द्वितीये सामय्यकरणमित्यर्थः। उपन्यासप्रधानता दुरूहेत्यत आहउदाहरणमेवेति // ' तेषु यत्र कारणं दृष्ट्वा कार्यमनुमीयते तत्पूर्ववद्यथा 'प्रविरलविलोलजलदः कुटजार्जुननीपसुरभिवनवातः / अयभायातः कालो हन्त हताः पत्रिकगेहिन्यः // 151 // अत्र वर्षोंः कारणभूतात् कार्यभूतविरहिणीनां मरणमनुमीयते / तेनैतत्पूर्वं कारणमिहास्तीति पूर्ववदुच्यते //