________________ 3 परिच्छेदः / सरखतीकण्ठाभरणम् / 381 मानसमपि द्विधा.। सुखादिविषयमनुभूतार्थविषयं च / तयोः सुखादिविषयं यथा 'अस्तोकविस्मयमविस्मृतपूर्ववृत्त- मुद्भूतनूतनभयज्वरजर्जरं नः। एकक्षणत्रुटितसंघटितप्रमोद __ मानन्दशोकशबलत्वमुपैति चेतः // 147 // एतन्निगदेनैव व्याख्यातम् // मानसमपि द्विधेति / संयुक्तसमवायनियमितमेकमपरं तु संस्कारनियमितम् / संस्कारलक्षणया हि प्रत्यासत्त्या यथा स्मरणातिरिक्तं प्रत्यभिज्ञानं तथेदमपीति न किंचिदनुपपन्नम् // निगदेनैवेति / यदि विस्मयादीनयं न साक्षात्कृतवांस्तर्हि कथमुद्वैलतामाचक्षीतेत्यर्थः // . अनुभूतार्थविषयं यथा... 'पिहिते वासागारे तमसि च सूचीमुखाग्रसंभेद्ये / मयि च निमीलितनयने तथापि कान्तामुखं व्यक्तम् // 148 // ' - इदमपि नातिदुर्बोधमिति न व्याख्यातम् // - इदमिति / व्यक्तमित्यनेन साक्षात्कारो दर्शितः / नहि स्मरणेन व्यक्तता भवति किंतु आत्मन्येवावतिष्टते। खानुभूतिमाश्रयत इत्यर्थः // खानुभूतिभवं द्विधा / मिथ्यात्मकमंमिथ्यात्मकं च / तयोमिथ्यात्मकं यथा'अथ दीर्घतरं तमः प्रवेक्ष्यन्सहसा रुग्णरयः ससंभ्रमेण / निपतन्तमिवोष्णरश्मिमुया वलयीभूततरुं धरां च मेने // 149 // " तदिदमिन्द्रियेषु मनसि चानवतिष्ठमानमात्मन्येवावतिष्ठते / , अमिथ्यात्मकं यथा-. - 'मनः प्रत्यकचित्ते सविधमवधायात्तमरुतः प्रहृष्यद्रोमाणः प्रमदसलिलोत्सङ्गितदृशः। ...