________________ 386 काव्यमाला। कान्ताहस्ताङ्गुलीजनितमनुकरणं रात्री समागमो भविष्यतीति कान्तागतोऽभिप्रायः। न तु निमीलनमनुकार्याद्यभिचरितमेतमर्थमवबोधयतीत्यर्थः // . प्रत्यक्षमक्षजं ज्ञानं मानसं चाभिधीयते। स्वानुभूतिभवं चैवमुपचारेण कथ्यते // 46 // ज्ञानसंगत्यनन्तरं प्रमाणरूपालंकारप्रस्तावस्तत्रान्येषां प्रमाणानां प्रत्यक्षमूलकत्वात् प्रथमं प्रत्यक्षलक्षणमाह-प्रत्यक्षमिति / साक्षात्कारः प्रत्यक्षमिति प्रसिद्धं तस्य विभागमाह-अक्षजमिति / अक्षं बहिरिन्द्रियं तस्माज्जातम् , मानसं बाह्ये. न्द्रियानपेक्षेण मनसा जनितम् / स्वानुभूतिः सहजा चिच्छक्तिस्तस्या उत्पन्नम् / शरीराभिघाताद्यभिभूते प्रत्याहारतिरस्कृते वा मनसि यत् कदाचिदतिस्फुटाभं ज्ञानमुत्पद्यते न तस्य मनोनिबन्धनता , शक्यतेऽभिधातुमिति चिच्छक्तिमेवाश्रयते / ननु इन्द्रियजन्य एव लोके साक्षात्कारिताप्रसिद्धेः कथमनुभूतिभवं तथेत्यत आह-उपचारेणेति / यदीन्द्रियजन्ये साक्षात्कारितानियमस्तदोपचारेण परिगणनम् / अथ भावनादिबलेन विनापीन्द्रियं भवतीति पक्षस्तदा मुख्यत एवेति भावः // - तत्राक्षजं द्विधा / युगपदेकशश्च / तयोर्युगपद्यथा--- 'क्रान्तकान्तवदनप्रतिबिम्बे मग्नबालसहकारसुगन्धौ / खादुनि प्रणदितालिनि शीते निर्ववार मधुनीन्द्रियवर्गः॥१४५' अत्र मदिराश्रयाणां मुखप्रतिबिम्बसौगन्ध्यवादुताश्रव्यत्वशैत्यानां दृग्घ्राणरसनश्रवणत्वगिन्द्रियप्रत्यक्षता प्रतीयते // . युगपदिति / एकस्मिन्वाक्ये घ्राणरसनचक्षुस्त्वक्श्रोत्राणां पञ्चानामपि युगपत्प्रवृत्त्यभिधानाद्यौगपद्यं रसानुगुणतया योगपद्याच्चमत्कारितामावहतीति द्विधाप्यलंकारकाण्डे परिसंख्यानमुचितम् // ... एकशो यथा 'मन्दमन्दविगलत्रपमीषच्चक्षुरुल्लसितपक्ष्म दधत्या / वीक्ष्यते स शनकैनववध्वा कामिनो मुखमधोमुखयैव 146' तदेतच्चाक्षुषम् / एवं श्रावणादीन्यप्युदाहरणीयानि //