________________ 3 परिच्छेदः।] सरखतीकण्ठाभरणम् / 379 . 'हिअए रोसुग्घुण्णं पाअप्पहरं सिरेण पत्थन्तो / णह उदओ(१) माणसिणीए अ थोरं सुअं रुण्णम् // 142 // ' अत्र हृदये रोषोद्भूर्णपादप्रहारं यदयं शिरसा प्रार्थितवान् , यच्च तयासौ न ताडितस्तत्र हृदये वल्लभा वसतीति भावः। स च प्रार्थनारोदनाभ्यामुद्भिद्यमानः सोद्भेदो भावो हृद्य इत्युच्यते॥ हद्यमिति / अभिमतस्य वस्तुनो हृदयावच्छेदेन वृत्तिमतिसंधाय प्रवृत्तिः / तत्र यद्यपि विशेषोऽस्ति तथापि भावसामान्यलक्षणाक्रान्तस्तत्रैवान्तर्भविष्यति // - निरुद्भेदस्तु यो भावः स सूक्ष्मस्तैर्निगद्यते / इङ्गिताकारलक्ष्यात्स सूक्ष्मात्स्याभूमिकान्तरम् // 45 // यथा'कदा नौ संगमो भावीत्याकीर्णे वक्तुमक्षमम् / अवेत्य कान्तमबला लीलापमं न्यमीमिलत् // 143 // " अत्र वक्तुमक्षमतायामिङ्गिताकारयोरप्रतीयमानत्वाद् भावगतेभूमि· कान्तरमिदं भवति / - ननु च सूक्ष्मः कथं पूर्वोक्तात्सूक्ष्माद्भिद्यत इत्यत आह-इङ्गिताकारलक्ष्यादिति / कदा नौ संगमो भावीत्यभिप्रायस्य व्यञ्जकं नेङ्गितं न विकारो वा कान्तस्य कश्चिदुपात्तः, अवेयेत्यादिप्रकाशिताभिप्रायानुगुणा काचिदस्ति क्रिया वा / कथमन्यथा तमुद्दिश्य लीलापद्मनिमीलनं संगच्छते। तस्मादन्यमेवेदं सूक्ष्मं भावलक्षणाक्रान्तम् // 'पद्मसंमीलनाच्चात्र सूचितो निशि सङ्गमः / आश्वासयितुमिच्छन्त्या प्रियमङ्गजपीडितम् // 144 // ' अत्रानुकार्यानुकरणेऽपि भूमिकान्तरिते एव भवत इति सोऽयं निरुद्भेदों भाव एव सूक्ष्म इत्युच्यते / * उत्तरार्धस्योदाहरणं व्युत्पादयति-अत्र पद्मसंमीलनाच्चेति / एवं चेत् प्राप्तमिशितलक्ष्यत्वमत आह-तत्र चेति / आजानिकं पद्ममीलनमनुकार्य