________________ 378 काव्यमाला। एकतो निरुद्धेदो यथा'सालिवणगोविआए उड्डीयन्तीअ पूसविन्दाइम् / सव्वङ्गसुन्दरी एवि पहिआ अच्छीइ पेच्छन्ति // 140 // शालिवनगोपिकाया उड्डाययन्त्याः शुकवृन्दानि / सर्वाङ्गसुन्दर्या अपि पथिका अक्षिणी एव प्रेक्षन्ते // ] अत्रातिसौन्दर्येण देवीभ्रान्त्या शालिवनगोपिकामालोकयतां पथिकानां तदक्षिनिरीक्षणेऽयमभिप्रायः- 'शालिवनतिरस्कारेण देवमानुषयोविशेषभूतः पञ्चामेव भूमिस्पर्शी भूम्यस्पर्शो वा न लक्ष्यत इति तदक्षिणी एव पश्यामो यदियं निमिषति तदा मानुषीयं यदि न निमिषति तदा देवीयम् / ' इति सर्वाङ्गसुन्दर्या अपि पथिकानामेव जायमानो भावो नेह केनचित्कर्मणोद्भिद्यत इत्येकतो निरुद्भेदश्चायं भावः // नेह केनचिदिति / तथा चात्र शब्दान्तरस्य व्यापारो नास्तीत्यर्थः // अभितो निरुद्भेदो यथा'गोलाअडट्टि पेच्छिऊण गइबइसुअं हलिअसोहा / आढत्ता उत्तरिउं दुक्खुत्ताराइ पअवीए // 141 // गोदातटस्थितं प्रेक्ष्य गृहपतिसुतं हालिकस्नुषा / ___ आरब्धा उत्तर्तुं दुःखोत्तरया पदव्या // ] अत्रागच्छन्ती हालिकनुषां दृष्ट्वा गृहपतिसूनोर्गोदावरीतटे यदवस्थानम् , यश्च तमवलोक्य तस्या दुरुत्तरमार्गेणावतरणारम्भस्तत्रायं तयो. रभिप्रायो हस्तावलम्बदानेनावयोरङ्गसङ्गमः संपद्यतामिति / स चाभितो द्वयोरपि जायमानो नेह केनचित्कर्मणोद्भिद्यत इत्यभितो निरुद्भेदश्वायं भावः / हृद्यं सूक्ष्मं च भिद्येत न हि भावात्कथंचन / हृद्योदाहरणं तत्र तैरिदं प्रतिपाद्यते // 44 //