________________ 3 परिच्छेदः / ] सरखतीकण्ठाभरणम् / 377 . अभिप्रायानुकूल्येन प्रवृत्तिर्भाव उच्यते। सोद्भेदोऽथ निरुद्रेदश्चैकतश्चाभितश्च सः॥४३॥ अमिमंतमुक्तादिवस्तुचिन्तननियमादनन्तरं भावलक्षणम् / तदाह-अभिप्रायेति / अभिमतवस्तुचिन्ता अभिप्रायः / तदनुकूलतया प्रवृत्तिः क्रियालक्षणाभावः / अत एव सूक्ष्माद्भेदः। प्रवृत्तिप्रतिपादकेन स्वार्थप्रकाशनद्वारा प्रकाश्यमानोऽभिप्रायः कचित्पदान्तरवृत्तिसहकृतेन प्रकाश्यते, क्वचित्केवलेन / ताविमौ सोद्भेदनिरुद्भदौ / मिथोऽनुबन्धविषयश्चायं चमत्करोति / तत्र प्रवृत्तिरुच्यमानानेन तस्योच्यते तयोर्वा / तदिदमाह-एकतश्चाभितश्चेति / अभिप्रायोद्भावनादशायां रूढः स्वादपदवीमासाद्य चमत्कारमावहति / अत एव तत्कार्ययोः प्रवृत्तेरनुभावरूपतया तद्यावानकुण्ठ इति हृदयम् (1) // . तत्रैकतः सोद्भेदो यथा 'गेल पलोएह इमं विअसिअणअणा पिअस्स अप्पेइ / घरिणी सुअस्स पढमुभिण्णदन्तजुअलंकिअं बोरम् // 138' [गृहाण पर्यालोकयेमं विकसितनयना प्रियायार्पयति / गृहिणी सुतस्य प्रथमोद्भिन्नदन्तयुगलाङ्कितं बदरम् // ] ___अत्र सुतस्य दन्तोद्मादहमुपभोगयोग्यास्मीति गृहिण्या एवमभिप्रायः प्रकर्षविकासितनयनतयोद्भिद्यते; न पुनः पत्युरित्येकतः सोढ़ेदोऽयं भावः // अभितः सोद्भेदो यथा- 'सालोए चिअ सूरे घरिणी घरसामिअस्स घेत्तूण / णेच्छन्तस्सवि पाए धुअइ हसन्ती हसन्तस्स // 139 // ' [सालोक एव सूर्ये गृहिणी गृहस्वामिनो गृहीत्वा / अनिच्छतोऽपि पादौ धावयति हसन्ती हसतः // ] अत्र. सालोक एव सूर्ये गृहपतेर्गृहागमनं गृहिण्याश्च यत्पादधावनं तदावाभ्यामद्य वेश्मनो न निर्गन्तव्यमिति भावः / स च द्वयोरपि हासेनाभित उद्भिद्यत इत्यभितः सोद्भेदोऽयं भावः //