________________ 376 काव्यमाला। अत्र प्रत्यक्षेष्वपि स्रोतस्तरुविपिनादिषु स्मरणस्य चिन्ताजन्यत्वादिदं चिन्तोद्भूतं स्मरणम् // - आदिग्रहणात्परप्रयत्नाद्यथा- 'दर्शनपथमायाता साक्षादिव तन्मयेन हृदयेन / - स्मृतिकारिणा त्वया मे पुनरपि चित्रीकृता कान्ता // 135 // ' अत्र परकृतात्प्रयत्नविशेषाच्चिन्तायाः प्रवृत्तत्वादिदमपि स्मरणमेव / / खप्नाद्यथा'जाने खमविधौ ममाद्य जुलुकोत्सेक्यं पुरस्तादभू__प्रत्यूषे परिवेषमण्डलमिव ज्योत्स्नासपत्नं महः / तस्यान्तर्नखनिस्तुषीकृतशरच्चन्द्रप्रभैरङ्गकै दृष्टा काप्यबला बलात्कृतवती सा मन्मथं मन्मथम् 136' अत्र खप्नस्य चिन्तादिजन्यत्वात्स्वप्नस्मृतिरपि स्मरणमेव // यदि स्वप्नस्मृतिरपि स्मरणमेव तदा कतमदत्र सादृश्यादिषु कारणमत उक्तम्-चिन्तादीति // प्रत्यभिज्ञानं यथा'गृहीतो यः पूर्वं परिणयविधौ कंकणधरः सुधामूर्तेः पादैरमृतशिशिरैर्यः परिचितः / स एवायं तस्यास्तदितरकरौपम्यसुभगो मया लब्धः पाणिर्ललितलवलीकन्दलनिभः // 137 // ' अत्र गृहीतो यः पूर्वं स एवायं तस्याः पाणिरिति प्रत्यभिज्ञानमपि स्मरणमेव // प्रत्यभिज्ञानस्वरूपं दर्शयति-यः पूर्व स एवायमिति / ननु सूत्रे स्वप्नात्पूर्व प्रत्यभिज्ञानमुद्दिष्टं पश्चादुदाहियत इति कथमेतत् / अत्रोदाहरणक्रमेऽपि लिपिप्रमादोऽयमित्याराध्यपादाः //