________________ 375 3 परिच्छेदः / सरखतीकण्ठाभरणम् / ..... सदृशादृष्टचिन्तादेरनुभूतार्थवेदनम् / स्मरणं प्रत्यभिज्ञानस्वप्नाद्यपि न तदहिः॥४२॥ “मीलिते ज्ञानमस्तीति साजात्यादनन्तरं स्मृतिं लक्षयति-सदृशेति / सदृशा ज्ञायमानसादृश्यात् प्रयत्नजा स्मृतिश्चिन्तादिर्यस्यार्थमग्रे कथयिष्यति-अनुभूतार्थवेदनं समानविषयानुभवनियतज्ञानविशेषरूपं स्मरणम् / प्रत्यभिज्ञानमपि पूर्वानुभूतविषयमेव / एवं स्वप्नोऽपि // . तत्र सदृशाद्यथा 'अदृश्यन्त पुरस्तेन खेलखञ्जनपतयः / अस्मर्यन्त विनिःश्वस्य प्रियानयनविभ्रमाः // 132 // ' अत्र खञ्जनपतिदर्शनात्तत्सदृशप्रियानयनविभ्रमस्मरणात्तत्सदृशदर्शनजं स्मरणमिदम् // __अत्र खञ्जनेति / अत्रशब्देनखञ्जनपतिश्चेदवलोकितानन्तरमेव प्रियास्मरणमासीदिति कार्यकारणभावोऽवगम्यते / स च कारणतासादृश्यमनन्तर्भाव्य खञ्जनज्ञानस्यास्तीति च प्रतीतं सादृश्यमिति भावः // अदृष्टाद्यथा'मुनिसुताप्रणयस्मृतिरोधिना मम वियुक्तमिदं तमसा मनः / मनसिजेन सखे प्रहरिष्यता धनुषि चूतशरश्च निवेशितः 133 // ' अत्र मुनिसुताप्रणयस्मृतिरोधिना तमसा मे मनो वियुक्तमित्यदृष्टकृतं सारणमिदम् // अत्र मुनिसुतेति / तमोलक्षणस्य प्रतिबन्धकस्यापगमे स्मरणरूपं कार्यमावश्यकमित्यर्थः // चिन्ताया यथा'पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां _ विपर्यासं यातो घनविरलभावः क्षितिरुहाम् / बहोदृष्टं कालादपरमिव जातं वनमिदं निवेशः शैलानां तदिदमिति बुद्धिं द्रढयति // 134 // '