________________ 372 काव्यमाला। अत्र मायादीनामिति / न परमेश्वरस्य माया छद्म, न शक्तौ मतिभ्रमः, न ध्वंसो वीर्यस्य, नवार्जुनादेवार्जुनस्यान्यत्वमिति विषयबाधात् // मीलिते भ्रान्तिरस्तीति भ्रान्त्यनन्तरं मीलितलक्षणमाह वस्त्वन्तरतिरस्कारो वस्तुना मीलितं स्मृतम् / पिहितापिहिते चैव तद्गुणातद्गुणौ च तत् // 41 // वस्त्वन्तरेति / वस्तूनामिति श्लिष्टषष्टी / वस्त्वन्तरेण तिरस्कारे इति कर्मणि / वस्त्वन्तरस्य तिरस्कार इति कर्तरि / फलतः स एवार्थः / तथाचोत्कृष्टगुणेनापकृटगुणस्य तिरस्करणं न्यग्भावनमिति लक्षणार्थः / पृथपतिरस्कारेणैकरूपतापत्तिमीलितमुच्यते / तथाच कातन्त्रम्-'मीलितं युक्तमुच्यते' इति / अभिप्रायपूर्वस्तिरस्कारो द्विविधः-सिद्धाभिप्रायफलोऽसिद्धाभिप्रायफलश्च यथाक्रमं पिहितापिहिते / न चैतावता विशेषेण पृथग्भावः; सामान्यलक्षणव्याप्तत्वादवान्तरभङ्गीनामानन्त्याच्च / स रूपगुणेन तिरस्कारस्तद्गुणो विरूपगुणेनातद्गुणः / एतावपि मीलितविशेषाविति स्फुटम् // अत्र मीलितमभिधीयमानगुणेन प्रतीयमानगुणेन च वस्तुना संभवति / तयोराद्यो(ऽभिधीयमानगुणेन) यथा'एन्तोवि ण सच्चविओ गोसे पसरत्तपल्लवारुणच्छाओ। मज्जणतंबेसु मओ तह मअतंबेसु लोअणेसु अमरिसो // 126 // [आगच्छन्नपि न दृष्टः प्रातः प्रसरत्पल्लवारुणच्छायः / मजनताम्रयोर्मदस्तथा मदताम्रयोर्लोचनयोरमर्षः // ] अत्र मज्जनताम्रयोर्लोचनयोर्मदरागो मदताम्रयोः कोपानुरागः साक्षादभिधीयमानेनैव गुणेन तिरस्क्रियमाणो निदर्शित इत्यभिधीयमानगुणेन वस्तुनैतन्मीलितम् // -- विभागमाह-अत्रमीलितमिति। एन्तोवीति / सच्चविओ दृष्टः / गोसे प्रातः। तस्याः मज्जनं स्नानम् / अत्र ताम्रपल्लवारुणरागपदाभ्यामभिधीयते गुणः //