________________ 3 परिच्छेदः / ] सरखतीकण्ठाभरणम् / 371 उभयात्मक इति / स्त्रीरत्नसृष्टिरित्यनेन तत्त्वानुपाती, अपरेत्यनेनातत्त्वानुपाती प्रकाशितः // अनिर्णयान्तो मिथ्यारूपो यथा'अद्रेः शृङ्गं हरति पवनः किंखिदित्युन्मुखीभि दृष्टोच्छ्रायश्चकितचकितं मुग्धसिद्धाङ्गनाभिः / स्थानादस्मात्सरसनिचुलादुत्पतोदयुखः खं . दिङ्गागानां पथि परिहरन्स्थूलहस्तावलेपान् // 123 // अत्र किमिदमद्रेः शृङ्ग पवनो हरतीति मेघं प्रति कल्पनायां मिथ्यात्वाद्वस्तुनश्चानिर्णयादनिर्णयान्तो मिथ्यारूपो वितर्कः // - मिथ्यामिथ्यारूपौ बाधिताबाधितविषयौ / अबाधितोऽपि तर्को भवत्येव / यथा यद्यस्य नीलं रूपं नीलोत्पलमिति // स एवामिथ्यारूपो यथा'अयमसौ भगवानुत पाण्डवः स्थितमवाङ्मुनिना शशिमौलिना। समधिरूढमजेन नु जिष्णुना खिदिति वेगवशान्मुमुहे गणैः॥१२४॥' अत्र भगवत्पार्थयोरमिथ्यारूपत्वेन वेगवत्त्वादेकस्यानिर्णयान्तोऽमिथ्यारूपो वितर्कः // .. अथ भगवत्पार्थयोरिति / भगवत्पार्थयोरवस्थानयोः समधिरोहारोहयोश्च न किंचिद्वाधकमस्ति चक्षुर्ज्ञानस्य विशेषः प्रत्यक्षत इति // अनिर्णयान्त उभयात्मा यथा'माया खिदेषा मतिविभ्रमो वा ध्वस्तं नु मे वीर्यमुताहमन्यः / गाण्डीवमुक्ता हि यथापुरा मे पराक्रमन्ते न शराः किराते // 125 // ' अत्र मायादीनां विकल्पानां मिथ्यारूपत्वान्मम शराः किराते न व्याप्रियन्त इत्यस्या मिथ्यारूपत्वादनिर्णयान्तत्वाचायमनिर्णयान्त उभयरूपो वितर्कः //